पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/१२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्गः ] दशमं प्रकरणम् । विनयोपग्रहान् भूत्यै कुर्वीत नृपतिः सुतान् । अविनीत कुमारं हि कुलमाशु विनश्यति ॥ ५ ॥ विनीतमौरसं पुत्रं यौवराज्येऽभिषेचयेत् । दुष्टं गजमिवोद्दत्तं कुर्वीत सुखबन्धनम् ॥ ६ ॥ राजपुत्रः परित्यागं सुदुर्वृत्तोऽपि नार्हति ।

क्लिश्यमानः स पितरं परमाश्रित्य हन्ति हि ॥ ७ ॥ 

व्यसने सज्जमानं हि क्लेशयेद् व्यसनाश्रयैः । तथा च क्लेशयेदेनं यथा स्यात् पितृगोचरः ॥ ८ ॥ ( इति राजपुत्ररक्षणं नाम दशमं प्रकरणम् ) तद्रक्षणोपायमाह --- विनयोपग्रहानित्यादि । विनयेनोपग्रहो येषामिति विग्रहः । आदावेव विनयेनोपगृह्णीयादित्यर्थः । अन्यथा ह्यविनीतकुमारं राजकुलम् अस्वामिप्रकृतिसम्पन्नं पराभियोगकाले निराश्रयत्वाद् विशीर्यते ॥ ५ ॥ विनीतम् आत्मसम्पन्नम् । औरसं कृतक्रियायां स्वयं जातम् । उद्वृत्तम् अविनीतम् । कुर्वीत सुखबन्धनं, न परित्यजेत् । सुखसंवर्धनेन ह्युपायेन बद्धो नितरां नाभिद्रुह्यति, पित्रा कल्पितवृत्तित्वात् ॥ ६ ॥ अन्यथा परित्यक्तः क्लिश्यमानः परान् सामन्ताटविकादीनाश्रित्य पितरमेव हन्यादिति । यदाह - राजपुत्र इत्यादि ॥ ७ ॥ व्यसने सज्जमानमिति अतिमुखोपरुद्धत्वाद् व्यसने यदा सज्जते । व्यसनाश्रयैरिति । मृगयादिप्रतिवद्धैरुपायैरित्यर्थः । तद् यथा -- मृगयाकामं प्रति- रोधकव्यञ्जनैः कदर्थयेत् । द्यूतकामं द्यूतकारव्यञ्जनैः संरोधेन वाक्पारुप्यादिखलीकारेण । मद्यकामं मदनीययोगपानेन । परस्त्रीषु मनः कुर्वाणमार्याव्यञ्जनाभिरमेध्याभिः स्त्रीभिः शून्यागारे रात्रौ क्लेशयेद्, यदनुभवान्न पुनः प्रवर्तेत । पितृगोचर इति पितुर्विधेयश्च स्यादित्यर्थः ॥ ८ ॥ (इति राजपुत्ररक्षणं नाम दशमं प्रकरणम् ) १. 'पितरं ना' ङ-च. पाट:.