पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/१२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

[ सप्तमः अथ सप्तमः सर्गः

  • १० राजपुत्ररक्षणप्रकरणम् *

प्रजात्मश्रेयसे राजा कुर्वीतात्मजरक्षणम् । लोलुभ्यमानास्तेऽर्थेषु हन्युरेनमरक्षिताः ॥ १ ॥

राजपुत्रा मदोन्मत्ता गजा इव निरङ्कुशाः ।
भ्रातरं वापि निघ्नन्ति पितरं वाभिमानिनः ॥ २ ॥
राजपुत्रैर्मदोन्मत्तैः प्रार्थ्यमाननितस्ततः ।

दुःखेन रक्ष्यते राज्यं व्याघ्राघ्रातमिवामिषम् ॥ ३ ॥ रक्ष्यमाणा यदिच्छिद्रं कथञ्चित् प्राप्नुवन्ति ते । सिंहशाबा इव घ्नन्ति रक्षितारमसंशयम् ॥ ४ ॥ इदानीमाभ्यन्तरराज्योपवातप्रतिविधानमस्मिन् सर्गे प्रकरणद्वयेनोच्यते । तत्र स्वशरीरोपघातः स्वेभ्यः पुत्रदारमन्त्र्यादिभ्यः परेभ्यश्च सामन्तादविकेभ्यः । तत्र कर्कटकसधर्माणो राजपुत्रा जनकभक्षा इति तेषामेव तावद् रक्षणमुच्यतेऽष्टभिः श्लोकैः । प्रजेत्यादि । लोलुभ्यमानाः अत्यर्थ (गर्ध ? गृध्य) मानाः । अरक्षिता इति असंरक्षिताः । दूरक्षिताश्च हन्युरिति सामर्थ्यसिद्धम् ॥ १ ॥ तदेव दृष्टान्तेन स्फुटयन्नाह - राजपुत्रा इत्यादि । निरङ्कुशा अनियमिताः * ॥ २ ॥ प्रार्थ्यमानमितस्ततः सर्वोपायैः प्रार्थ्यमानम् ॥ ३ ॥ रक्ष्यमाणा इत्यादि । नारक्षिताः । राज्ञा सुष्ठु रक्षणीयाः, अन्यथा स्ववधाय कृत्योत्थापनया यतन्त इति ॥ ४ ॥ १. चा' क. पाठः. १२. 'धोपायकृत्योत्थापनाय यतन्त इति दर्शयति' इ-च. पाठः.

  • एतदनन्तरम् ' (उ) भयस्वमेवेति राज्यलुब्धा राज्ञा नियन्तुं न शक्यन्ते' इत्यधिकं ङ-च- पुस्तकयोः पठ्यते.