पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/१२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्गः] नवमं प्रकरणम् । यथा बीजाङ्कुरः सूक्ष्मः परिपुष्टोऽभिरक्षितः ।

काले फलाय भवति साधु तद्वदियं प्रजा ॥ १४ ॥ 

उद्देजयति तीक्ष्णेन मृदुना परिभूयते । तस्माद् यथार्हतो दण्डं नयेत् पक्षमनाश्रितः ॥ १५ ॥ ( इति कण्टकशोधनं नाम नवमं प्रकरणम् ) इति कामन्दकी नीतिसारे कण्टकशोधनं नाम षष्ठः सर्गः । तदेव प्रतिपादयन्नाह – यथेत्यादि । तद्वदिति अभिरक्षिता परिपुष्टा च ॥ १४ ॥ - - - तत्रापि यथापराधदण्डप्रणयनेनैवाभिरक्ष्यते नान्यथेति प्रागुक्तमप्यर्थं पुन- र्दृढीकरणार्थमाह – उद्वेजयतीत्यादि । पक्षमनाश्रित्य इच्छाद्वेषावपास्य ||१५|| ( इति कण्टकशोधनं नाम नवमं प्रकरणम् ) इति शङ्करार्यकृतायां कामन्दकीय नीतिसारपञ्चिकायां जयमङ्गलायां कण्टकशोधनं नाम षष्ठः सर्गः ।