पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/१२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

८८ कामन्दकीय नीतिसारे [पृष्टः राज्योपधासं कुरन ये पापा राजवल्लभाः । एकैकशः संहता वा तान् दूष्यान् परिचक्षते ॥ ९ ॥

दूष्यानुपांशुदण्डेन हन्याद् राजाविलम्बितम् । 

प्रदूष्य वा प्रकाश हि लोकविद्वेषनागतान् ॥ १० ॥ राजा रहलि सूप्यं हि दर्शनायोपमन्त्रयेत् ।

गूढशस्त्रा विशेयुस्तं पश्चादासञ्जिता नराः ॥ ११ ॥
विश्वस्ता हि विचिन्वीयुर्द्धास्थाः कक्ष्यान्तरागतान् । 

ते शस्त्रग्राहिणो ब्रूयुः प्रयुक्ताः स्म इति स्फुटम् ॥ १२ ॥

इत्यादि दूष्यान् सन्दूष्य प्रजानामभिवृद्धये 

विनयञ्छ्रियमुत्कर्षे राजा शल्यं समुद्धरेत् ॥ १३ ॥ दूष्या अपि राज्यतोदनात् कण्टका हन्तव्या इत्युपदिशन्नाह - राज्योपघातमित्यादि । राजवल्लभाः प्रागेव दोषोत्पत्तेः दोषोत्पत्तौ तु राज्ञो दूषणार्हाः दूष्याः ॥ ९ ॥ ते तु दृढभक्तिताख्यापनार्थ प्रकाशं न हन्तव्या इत्याह--- दूष्यानुपांशुदण्डेनेति । विवशखादिना हन्यादेवाविलम्बितम्, अन्यथा त एवैनं प्रतीपं हन्युः । प्रदूष्य वेति । दोषेण लोकविद्विष्टान् कृत्वा प्रकाश वा हन्यात् ॥ १० ॥ तदूषणोपायमाह - राजेत्यादि । रहति विविके दर्शनायोपमन्त्रयेद् आह्वयेत् । गूढशस्त्रा अदृश्यास्थाः विशेयुः । तमिति रहोदेशन | राजप्रणिहिताः पश्चादासज्जिताः दूष्यस्य पृष्ठतः संश्लिष्टाः ॥ ११ ॥ विश्वस्ता इति गूढशस्त्रैः प्राक् कुतसङ्गा नादौवारिकाः । विचिन्वीयुः अन्तःप्रवेशाय शोधयेयुः । कक्ष्यान्तरागतान् मध्यमकक्ष्याप्राप्तान् । प्रयुक्ताः स्म इति दूष्येण भर्त्रा राजवधार्थम् ॥ १२ ॥ सन्दूष्य प्रजानामभिवृद्धये । एवञ्च नामादुष्टदूषणं नाधर्माय । विनयन् विविधप्रकारेणोत्कर्षं नयन् । श्रियम् आत्मनः प्रजायाश्च । शल्यमुद्धरेद् दण्डेन, अन्यथा कण्टकशालितया प्रजा क्षीयमाणा कथं फलाय स्यात् ॥ १३ ॥ १. ' निनीषुः श्रिय ' इति मूलकोशेषु पाठः २' 'अप्रकाश ह' ङच. पाठः ३. 'य आ क.ख. पाठः.