पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/११९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्गः ]87 नवमं प्रकरणम् । धर्म्यामारेभिरे हिंसामृषिकल्पा महीभुजः । तस्मादसाधून् धर्माय निघ्नन् दोषैर्न लिप्यते ॥ ५ ॥ धर्मसंरक्षणपरो धर्मायार्थं विवर्द्धयेत् । ये ये प्रजाः प्रबाधेरन् तांस्तान् शिष्यान्महीपतिः ॥ ६॥ यमार्याः क्रियमाणं हि शंसन्त्यागमवेदिनः ।

स धर्मो यं विगर्हन्ति तमधर्मं प्रचक्षते ॥ ७ ॥ 

धर्माधर्मौ विजानन् हि शासनेऽभिरतः सताम् । प्रजा रक्षेन्नृपः साधु हन्याच्च परिपन्थिनः ॥ ८ ॥ " लोकानुग्रहं लोकपालनम् । शरीरमनुपालयेत् तस्य ह्यसंरक्षतो दूप्यैः शरीरोपघातात् । यद्येवं तर्हि किं लोकसंरक्षणेनेत्याह- - राज्ञः संरक्षणं धर्म इति । स च शरीरसाध्य इत्यानुषङ्गिकं शरीरपालनम् । तस्मात् प्रधानत्वाद् राष्ट्र एव कण्टकशोधनमस्मिन् सर्गेऽभिधीयत इति प्रकरणक्रमः ॥ ४ ॥ तत्रापि हिंसा काचित् क्रियमाणा धर्माह भवतीत्याह - धर्म्यमित्यादि । धर्मादनपेतां हिंसां पश्वालम्भनवत् । ऋषिकल्पा मन्वादयो राजानः । असाधून् प्रजाबाधकान् पापात्मनः असाधुतयैव । दोषैर्न लिप्यते, तेषां निग्रहेण भूयसो जनस्यानुग्रहाद् व्याघ्रादिघातवत् ॥ ५ ॥ कान् पुनस्तान् हन्यादित्याह - धर्मसंरक्षणपर इत्यादि । यथायथं लोक- स्येज्याध्ययनादिको धर्मः संरक्ष्यः । धर्माथेति । आत्मनो राजसूयादिप्रवर्तनार्थम् । विवर्द्धयन् आर्जयन्नित्यर्थप्राप्तम् । ये ये प्रजा बाधेरन्निति । अप्रबाधकशासने तु स्यादेव दोषलेपनमिति भावः ॥ ६ ॥ ननु शिष्टसंरक्षणं तावद्धर्मो युज्यते, अशिष्टनिग्रहस्तु कथमिति चेद् आगमप्रामाण्यात्, यदाह - यमार्या इत्यादि । यमित्यशिष्टनिग्रहम् । आर्याः ये उपायविकल्पे कृतलक्षणाः । यं विगर्हन्ति शिष्टनिग्रहम् ॥ ७ ॥ धर्माधर्मौ विजानन्निति । सद्भिः शंसितगर्हितावेतौ विजानन् । शासनेडभिरतः सतां करणीयमिदं, नेदमित्यस्मिन् वृद्धानुशासने स्थितः। परिपन्थिनश्चोरादिकण्टकान् ॥ ८ ॥ १. 'हन्यान्म' ख- ग. पाठः. २. 'ते' ख-ग. पाठः.