पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/११८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

[ षष्ठः अथ षष्ठः सर्गः ।

  • ९ कण्टकशोधनप्रकरणम् *

लोके वेदे च कुशलः कुशलैः परिवेष्टितः । आदृतश्चिन्तयेद् राज्यं सबाह्याभ्यन्तरं नृपः ॥ १ ॥

आभ्यन्तरं शरीरं स्वं बाह्यं राष्ट्रमुदाहृतम् ।
अन्योन्याधारसम्बन्धादेकमेवेदमिष्यते ॥ २ ॥ 

राज्याङ्गानां तु सर्वेषां राष्ट्राद् भवति सम्भवः । तस्मात् सर्वप्रयत्नेन राजा राष्ट्रं समुन्नयेत् ॥ ३ ॥

लोकानुग्रहमन्विच्छन् शरीरमनुपालयेत् ।

राज्ञः संरक्षणं धर्मः शरीरं धर्मसाधनम् ॥ ४ ॥ एवमनुगतैः परितोषितैश्चानुजीविभिः परिवारितः सवाह्याभ्यन्तरं राष्ट्रं निरूपयेत्, यथा स्वपरैर्नोपहन्यत इति तदुपघातप्रतिविधानाय सर्गद्वयमुच्यते । तदेवाद्यश्लोकेन दर्शयति – लोके वेदे च कुशल इति । दृष्टव्यवहारो दृष्टशास्त्रश्चेत्यर्थः । स हि पापान्निघ्न्नन्नपि न संक्लिष्टचित्तो भवति । कुशलैरनुजीविभिः ॥ १ ॥ - शरीरं स्वमिति । स्वामिप्रकृतिरित्यर्थः । बाह्यं राष्ट्रमुदाहृतम् अमात्यादिकम् | राज्यशब्दः समुदायवृत्तिरप्यवयवेषु वर्तते देहपादवत् । बाह्याभ्यन्तर- भावेन कल्पितमप्येकमेवेदमिप्यते अन्योन्याश्रयाश्रयिभावाद् रथवत् ॥ २ ॥ तत्र बाह्यं राष्ट्रं प्रधानं, शेषाणां तत उत्पत्तेरित्याह - राज्याङ्गानामिति । उक्तञ्च " कोशो दण्डः कुप्यं विष्टिर्वाहनं निचयाश्च जनपदादुत्तिष्ठन्ते तेषामभावो जनपदाभावे स्वाम्यमात्ययोश्चानन्तर" (कौटि. अर्थ. ८-१-१२७ ) इति । तस्मात् सर्वप्रयत्नेन राष्ट्रमेव प्रसाधयेत् कण्टकोद्धरणेन ॥ ३ ॥ स्वशरीरसंरक्षणं चास्य लोकसंरक्षणार्थमेवेत्याह- लोकानुग्रहमित्यादि ।

१. ' वारितः क. पाठः. २. ' मुच्यते' ख-ग. पाठः.