पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/११७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्गः ] अष्टमं प्रकरणम् । प्रादुर्भवन्त्यर्थसमं यस्माचिन्तान्यनुक्षणम् । तस्माद् योगीव सततं तानि पश्येव समाहितः ॥ ९० ॥ स्वनुगतपरितोषितानुजीवी मधुरवचाश्चरितानुरक्तलोकः । सुनिपुणपरमाप्तसत्तन्त्रो भवति चिरं नृपतिः प्रदीप्तरश्मिः ॥ ९१ ॥ (इति स्वाम्यनुजीवितं नामाष्टमं प्रकरणम् ) इति कामन्दकी नीतिसारे स्वाम्यनुजीविवृत्तं नाम पञ्चमः सर्गः । अनुजीविनां च चित्तानित्यत्वात् कल्य कोऽभिप्राय इति योगिवन्निरूपयेत् यदाह — प्रादुर्भवन्तीत्यादि । अर्थसम कार्यतुल्यम् । यथा यथा कार्य प्रतिक्षणं विलक्षणमुत्पद्यते, तथा तथा तदभिप्राया अपीति ॥ ९० ॥ स्वामिवृत्तफलमाह – स्वगतेत्यादिना । स्वविधेयाः स्ववृच्या परितोषिताः स्वामिवृत्त्यानुजीविनो यस्येति विग्रहः । लोकः प्रजा । स्वनिपुणपरमाप्तसक्ततन्त्र इति । सुनिपुणं शास्त्रकलासु, परमम् उत्कृष्टम् आसम् अविसंवादकं सक्तमनुबद्धं तन्त्रं स्वसैन्यं यस्येति समासः । रश्मिः प्रतापो भूतिर्वा ॥ ९१ ॥ (इति स्वाम्यनुजीविवृत्तं नामाष्टमं प्रकरणम् ) इति शङ्करार्यकृतायां कामन्दकीय नीतिसारपञ्चिकायां जयमङ्गलायां स्वाम्यनुजीविवृत्तं नाम पञ्चमः सर्वः ।