पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/११६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

८४ कामन्दकीय नीतिसारे स्वल्पमप्यपकुर्वन्ति ये पापाः पृथिवीपतौ । ते वह्नाविव दन्ते पतङ्गा मूढचेतसः ॥ ८५ ॥

संंवर्धयेत् तथा कोशमाप्तैस्तज्ज्ञैरधिष्ठितम् । 

काले चास्य व्ययं कुर्यात् त्रिवर्गप्रतिपत्तये ॥ ८६ ॥ धर्मार्थं क्षीणकोशस्य कुशत्वमपि शोभते । सुरैः पीतावशेषस्य शरद्विमरुषेरिव ॥ ८७ ॥ हस्पतेरविधान इति शाखार्थनिश्रयः । विध्वासी तथा च स्याद् यथा संव्यवहारवान् ॥ ८८ ॥

विधासमेत विश्वस्तं विश्वस्तं नातिविश्वसेत् ।

यस्मिन् विश्वासमायाति विभुतेः पात्रनेव सः ॥ ८९ ॥ "अत्यासन्ना विनाशाय दूरस्था न फलप्रदाः । तस्माद योगेन संसेव्या भृत्यैः पार्थिवह्वयः" || इति । ननु च स्वामिनोवृतिरधिकृता । सत्यम् । सैवानुजीविद्वारेण कथ्यते आयु. क्तकेष्यग्निवत । येऽन्त ता पतङ्गानिव दहेदिति ॥ ८४ ॥ तदेव दर्शयति स्वल्पमित्यादिना ॥। ८९ ।। कोश व्यापारमाह-संबर्द्धयेदित्यादि । तज्जैः कुशलः । काले चेति । त्रिवर्गसानकाले || ८६ ॥ धर्मार्थं क्षीणकोशस्य कृशत्वं शोभते, धर्मेण पुनरापूर्यमाणत्वात् । यथा सुरैः सुषुम्ण्या नाडया कृष्णपक्षे पीतावशाषस्य चन्द्रमसः पुवरिडया नाड्या शुक्ल- पक्षे तैरेव पूरणम् । कामात् तु क्षीणत्व पूरणाभावान्न कृषत्वं शोभते।तथार्था दपि क्षीणस्य, यद्यर्थो न निष्पन्नः स्वल्पो वा स्यात् ॥ ८७ ॥ एवमनुजीविषु वर्त्तमानोऽपि न विश्वसेदित्याह --- बृहस्पतेरित्यादि । यथा संव्यवहारवानिति । यावता परो विश्वसिति तावन्मात्रं विश्वसेदित्यर्थः ॥ ८८ ॥ तदेव स्फुटयति--- विश्वासयेदित्यादिना । विभृतेः पात्रमेव स इति । स ह्यतिविश्वस्तत्वाद् राज्ञो यद्यदिच्छति तत्तदाप्नोति ॥ ८९ ॥ 4 १. यः कार्यस्त्रि' ख-ग. पाठः २. ग. पाठः ४. 'स्ते ' मूलकाशेषु पाठः. 'अविश्वासी त' कपाठः ३. 'न विश्वसेद' ख. ५. 'लै' क ख ग घ पाठः.