पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/११५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्गः ] अष्टमं प्रकरणम् । S सुसंरक्षेत निपुर्णः सस्यं कण्टकशाखया । फलाय लगुडः कार्यो दस्युभोग्यमिदं जगत् ॥ ८० ॥

आयुक्तकेभ्यश्चोरेभ्यः परेभ्यो राजवल्लभात् । 

पृथिवीपतिलोभाच्च प्रजानां पञ्चधा भयम् ॥ ८१ ॥

पञ्चप्रकारमप्येतदपोह्य नृपतिर्भयम् ।

आददीत फलं काले त्रिवर्गपरिवृद्धये ॥ ८२ ॥

यथा गौः पाल्यते काले दुह्यते च तथा प्रजा । 

सिच्यते चीयते चैव लता पुष्पप्रदा यथा ॥ ८३ ॥ आस्रावयेदुपचितान् साधु दुष्टैव्रणानिव । आयुक्तास्ते च वर्त्तेरन् अनाविव महीपतौ ॥ ८४ ॥ ૮૩ स्वभूमिजसस्येषु का प्रतिपत्तिरित्याह – सुसंरक्षेतेत्यादि । कण्टकशाखयेति । प्रजातोदनाद् ग्रामकण्टकाश्चोरादयः, तेषामपवारणेन । लगुडः कार्य इति । लोकेन सङ्ग्रहीतेषु सस्येषु फलार्थो दण्डः पातनीयः परिभोगार्थं च, अन्यथा ह्यत्युपचितो लोको न भोग्यः स्यात् ॥ ८० ॥ अस्यैव श्लोकस्य पूर्वार्द्धमधिकृत्याह - आयुक्तकेभ्य इत्यादि । आयुक्तकाः अधिकृताः । परे शत्रवः । राजवल्लभः स्यालादिः । पृथिवीपतेर्लोभ एषः || उत्तरार्धमधिकृत्याह आददीत फलमिति । काले सस्यनिष्पत्तौ सत्याम् ॥ ८२ ॥ तदेव दृष्टान्तेन प्रतिपादयन्नाह --- यथा गौरित्यादि ॥ ८३ ॥ कृतकर्मसु चायुक्तकेषु विधिमाह --- आस्रावयेदित्यादि । साधु सम्यग् वर्ते- रन् अग्नाविव । यथाहुः १. 'णं' क. पाठः. २. 'का' ख-ग. पाठः. ३. 'प्रवणा' ख-ग. पाठः ४. 'तु' क. पाठः. ५. अवतारिका न पठ्यते क-ख. पुस्तकयोः. ९ तङि प्रमाणं मृग्यम् ।