पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/११४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

८२ कामन्दकीय नीतिसारे [पञ्चमः कृषिर्वणिक्पथो दुर्गे सेतुः कुञ्जरबन्धनम् ।

खन्याकरो वनादानं शून्यानां च निवेशनम् ॥ ७७ ॥ 

अष्टवर्गमिमं साधु स्वस्थवृत्तं विवर्द्धयेत् ।

जीवनार्थमिहाजीव्यैः कारयेत् करणान्वितैः ॥ ७८ ॥
यया ययेह वर्द्धेत वृत्त्या क्षीणोऽपि पार्थिवः ।

तस्यां तस्यां न संरोधं कुर्यात् पण्योपजीविनाम् ॥ ७९ ॥ दगारं तत् कोष्ठागारं तत्र अभियुक्त आदृतः स्यात् । अत्यायं चेति आगमतिक्रान्तम् आयादधिकमित्यर्थः । प्रत्यवेक्षेत चान्वहम् कियदद्य दातव्यं दापितं चेति ॥ ७६ ॥ यत्कर्मप्रतिबद्धाश्चायाः स्युः, तानि कर्माण्याह -कृषिरित्यादि । कृषिः पूर्वमध्यापरा वापसस्यानिष्पत्तये कर्म । वणिक्पथः स्थलपथो वारिपथश्च । दुर्ग पर्वतादि । सेतुबन्धः सस्यनिष्पत्तये जलाधारबन्धनम् । अस्मात् कर्षण भिन्नमिति प्रथमं कृषिग्रहणम् । आचार्यस्तुभयोः सस्यफलत्वात् कर्षणं सेतावेवान्तर्भाव्य सप्तवर्गमुपदिष्टवान् । तद्यथा “दुर्गसेतु कर्मवणिक्पथशून्यनिवेशखनिद्रव्यहस्तिवनकर्माणी" (कौटि. अर्थ. ७-१-९९ ) ति । कुञ्जरबन्धनं प्राप्यादिपदाष्टकम् । खन्यन्त इति खनयः सुवर्णरजतादयः तेषामाकरः क्षेत्रम् । वनादानं सारदार्वादिच्छेदनम् । शून्यानां निवेशनम् उद्वासितानाम् अनिविष्टपूर्वाणां वा भूमिभागानामध्यासनम् ॥ स्वस्थवृत्तमिति । स्वस्थावस्थायां राज्ञा प्रवर्त्यमानत्वादष्टवर्गस्य । तद् जीवनार्थम् अकृतं कारयेत् कृतं च विवर्द्धयेत् । इहेति स्वभूमौ । आजीव्यैः आस्वाद्यैः, यैर्भक्षितमपि पुनर्दास्यत इत्यर्थः । करणान्वितैः सङ्ख्यायकलेखकादिवर्गोपेतैः ॥ ७८ ॥ पण्यागारमधिकृत्य परभूमिजपण्यादानोपायमाह — ययेत्यादि । एतदुक्तं भवति – स्थलजलपण्योपजीविनां वाणिजकानां परदेशात् संव्यवहारार्थमिहागतानां वृत्तिमनुचितादानेन न विरोधयेद् मा भूत् परभूमिजपण्यक्षयादिहायापनमिति ॥ ७९ ॥ - १. ' त्तः' इति मूलकोशेषु पाठः. २. 'इयदद्यादातव्यं भावितं' क ख ग घ पाठः