पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/११३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्गः] अष्टम प्रकरणम् । लक्ष्म्या लक्ष्मीतां लोके विकासिन्यापि किं तथा ।

बन्धुभिश्व सुहृद्भिश्व विस्रब्धं या न भुज्यते ॥ ७२ ॥ 

आयद्वारेषु सर्वेषु कुर्यादास्तान् परीक्षितान् । आददीत धनं तैस्तु भास्वानुस्त्रैरिवोदकम् ॥ ७३ ॥

अभ्यस्तकर्मणतज्ज्ञान शुचीन् शुद्धार्थसङ्गतान् ।
कुर्यादुद्योगसम्पन्नानव्यक्षान् सर्वकर्मसु ॥ ७४ ॥ 

यो यद् वस्तु विजानाति तं तत्र विनियोजयेत् । अशेषविषयप्राप्ताविन्द्रियार्थेष्विवेन्द्रियम् ॥७५॥

कोष्ठागारेऽभियुक्तः स्यात् तदायन्तं हि जीवितम् ।
नात्यायं च व्ययं कुर्यात् प्रत्यवेक्षेत चान्वहम् ॥ ७६ ॥
विकासिन्यापि प्रकृष्टयापीत्यर्थः ॥ ७२ ॥

एवं स्वानुरूपप्रतिपत्त्या सम्मानितानामिदानी यथारिहम कर्मनियोगमाह आयद्वारेष्वित्यादि । शुल्कदण्ड पौतवाहादिप्यायस्थानेषु कुर्यात् स्थापयेत् । तेभ्यो द्रव्यस्यादानाद् आप्तान् अविसंवादकान् । परीक्षितान् उपधाभिः । उस्रैरिव रश्मिभिरिवायुक्तकैः ॥ ७३ ॥ किंविशिष्टान् पुनस्तान् कुर्यादित्याह -- अभ्यस्तकर्मण इत्यादि । प्रयोगतो बहुधा दृष्टकर्मणः । तज्ज्ञान् अर्थतः । शुचीन् उपधाशुद्धान् । शुद्धार्थसङ्गतानिति । विज्ञातेन सङ्ख्यायकादिकरणवर्गेणाधिष्ठितानित्यर्थः । उद्योगसम्पन्नानिति कर्मसूद्योगप्रमुखा गुणा व्याप्रियन्त इति दर्शयति । सर्वकर्मसु उत्तममध्यमाध्यमेषु ॥ ७४ ॥ तत्रानेकत्वात् कर्मणां न सर्वः सर्व वेत्तीत्याह - यो यद्वस्त्वित्यादि । अशेषविषयप्राप्ताविति । यथान्तरात्मा रूपाद्यर्थोपभोगमिन्द्रियैः साधयन् स्वविषय एवेन्द्रियं प्रवर्त्तयति तद्योग्यत्वाद्, एवं राजापीन्द्रियस्थानीयमध्यक्षकर्मसिद्धये तद्विषय एव कर्मणि नियोजयेत् । तथाहि अक्षवदधिक्रियन्त इत्यध्यक्षाः ॥ ७५ ॥ तैश्चादीयमानानामर्थानां कोशगृहं कोष्ठागारं पण्यागारं च । तत्र कोष्ठागारस्य प्रधानत्वात् तद्व्यापारमाह-- कोष्ठागार इत्यादि । कोष्ठमुदरं, तदर्थं य-