पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/११२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

८० कामन्दकीय नीतिसारे [पञ्चमः कुलीनान् नावमन्येत सम्यग्वृत्तान् मनस्विनः ।

त्यजन्त्येते हि भर्त्तारं घ्नन्ति वा मानहेतवः ॥ ६७ ॥ 

गुणैरुदारैः संयुक्तान् प्रोन्नयेन्मध्यमाधमान् ।

महत्तों प्राप्नुवन्तस्ते वर्द्धयन्ति नरेश्वरम् ॥ ६८ ॥
उत्तमाभिजनोपेतान् न नीचैः सह वर्द्धयेत् । 

कृशोऽपि हि विवेकज्ञो याति संश्रयणीयताम् ॥ ६९ ॥

निरालोके हि लोकेऽस्मिन् नासते तत्र पण्डिताः ।
जात्यस्य हि मणेर्यत्र काचेन समता मता ॥ ७० ॥ 

विश्राम्यन्ति महात्मानो यत्र कल्पतराविव । स श्लाघ्यो भवति श्रीमान् सत्सम्भोगफलाः श्रियः ॥ ७१ ॥ । पितृपैतामहताम् । वयो वार्द्धकम् । अवस्थां कार्यसम्भववशात् । स्वाद्वियेत, यथा ते तुष्येयुः ॥ ६६ ॥ नावमन्येत । यदि नाद्रियेत सम्यग्वृत्तान् विद्याश्रुतादिगुणयुक्तान् । मानहेतव इति । मान एव हेतुर्येषां त्यागे घाते च ॥ ६७ ॥ मध्यमाधमान् इति । एतदुक्तं भवति । मध्यमाधमकर्मसु ये नियुक्ताः, तानुत्तमगुणैर्युक्तान् नीचान् । प्रोन्नयद् उत्तमकर्मसु समारोपयेत् । ते हि महत्तां प्राप्नुवन्तो राजानं वर्द्धयन्तीति ॥ ६८ ॥ उत्तमान् अभिजनयुक्तान् । नीचैः सह न वर्द्धयेत् तत्तुल्यमानान् न कुर्यात् । एवञ्च सति विवेकज्ञत्वाद् बन्धुमित्रसज्जनानामाश्रयणीयो भवति । यदाह - कृशोऽपि क्षीणोऽपि, किमुत सम्पूर्णकोशबलः ॥ ६९ ॥ निरालोक इति । अस्मिन् लोके यो न विवेकज्ञः, तत्र नासत इति सम्बन्धः ॥ ७० ॥ आश्रयणफलमाह -- यसाफल्यं दर्शयति ॥ ७१ ॥ - विश्राम्यन्तीत्यादि । कल्पतराविवेत्याश्रयिण आश्रयसाफल्यं दर्शयति। ।।71।।- १. 'तुना' इति मूलकोशेषु पाठः. ' त्त्वं ख-ग. पाठः ३. 'जी' क. पाठः. ४. 'त्संयोग' क. पाठः,