पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/१११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्गः ] अष्टमं प्रकरणम् । कुलं वृत्तं श्रुतं शौर्य सर्वमेतन्न गण्यते । दुर्वृत्ते वा सुवृत्ते वा जनो दातरि रज्यते ॥ ६१ ॥ अर्थार्थी जीवलोकोऽयं ज्वलन्तमुपसर्पति । क्षीणक्षीरां निराजीव्यां वत्सस्त्यजति मातरम् ॥ ६२ ॥ अपयन नृपः कालं भृत्यानामनुवर्त्तिनाम् ।

कर्मणामानुरूप्येण वृत्तिं समनुकल्पयेत् ॥ ६३ ॥ 

काले स्थाने च पात्रे च न हि वृत्तिं विलोपयेत् ।

एतद्वृत्तिविलोपेन राजा भवति गर्हितः ॥ ६४ ॥
अपात्रवर्षणं जातु न कुर्यात् सद्विगर्हितम् । 

अपात्रवर्षणात् किं स्यादन्यत् कोशक्षयादृते ॥ ६५ ॥ • कुलं विद्यां श्रुतं शौर्य सौशील्यं भूतपूर्वताम् ।

वयोsवस्थां च संवीक्ष्य स्वाद्रियेत महामनाः ॥ ६६ ॥

सर्वमेतन्न गण्यते प्राणधारणाक्षमत्वात् । दातरि रज्यते दानप्रतिद्धत्वाच्छरीरस्थितेः ॥ ६१ ॥ तदेव दृष्टान्तेन स्फुटयन्नाह - - अर्थार्थीति । ज्वलन्तं विभूत्या । तन्मा भून्मय्यनाश्रयणमित्यनुजीविनां वृत्तिं कल्पयेत् ॥ ६२ ॥ --- कथमित्यत्राह - - अहापयन्नित्यादि । वृत्तिकालमनतिपातयन् । अनुवर्त्तिनां, नान्येषां “कर्मणा भुज्यते वृत्तिरिति न्यायात् । तत्रापि कर्मणामानुरूप्येण उत्तममध्यमाधम कर्मापेक्षयेत्यर्थः ॥ ६३ ॥ काले स्थाने च पात्रे चेति । कार्त्तिक्यादिपर्वकाले । देवगृहादिस्थाने । श्रोत्रियादिपात्रे च । पूर्वजैः स्वयं वा कल्पितां वृत्तिं न विच्छेदयेत् ॥ ६४ ॥ पापिष्ठं वर्षणं दानं सद्भिर्विगर्हितं दृष्टादृष्टाभावात् ॥ ६५ ॥ आदरं च भृत्यानां गुणानवेक्ष्य कुर्यादित्याह - कुलमित्यादि । भूतपूर्वतां 9. 'शीलं श्रु' क. पाठः. ४. ' वधाय नृ' ख-ग. पाठः. पाठ:. २. 'कुलीने वा' ख.ग. पाठः. ३. 'वां' ख-ग, पाठः. ५. 'ष्टार्थाभा' ङ.च. पाठः. ६. 'नू सगुणानपेक्ष्य' इ-च,