पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

मिथ्याभियोगस्य तच्छ्रवणस्य च निषेधः, मित्रभेदकारिणां परित्यागः, प्रायोगि कादीनां वचसां ज्ञानं, सुहृदां प्रकाशपक्षग्रहणाभावः तेषामन्योन्यमत्सरवारणं, गुरुषु कार्येषु नीचानामपि दोषान् सतोऽपि प्रच्छाद्यासतामपि गुणानां प्रकाशनं, नीचानामपि मित्रीकरणम्, एवं समुद्यमिनो राज्ञोऽभ्युदयः । १४. सन्धिविकल्पप्रकरणम्. १२४ – १२९.

बलिना विगृहीतस्य कालयापनेन सन्ध्यन्वेषणं, कपालादयः षोडश सन्ध- यः – (१) उभयोरैकात्म्यं विना सन्धिमात्रस्य कपालसंज्ञत्वं (२) द्रव्योपहारात्रि- प्पद्यमानस्योपहारत्वं (३) दारिकादानपूर्वकस्य सन्तानसन्धित्वं (४) यावज्जीवं समानार्थप्रयोजनस्य मैत्रीपूर्वस्य सङ्गतसन्धित्वम् (५) आवयोरुभयोरपकारिण्यस्मिन् मयोच्छिन्ने तवाप्यर्थसिद्धिरिति क्रियमाण उपन्याससन्धि: (६) पूर्व मयोपकृत- त्वादयं प्रतिकरिष्यतीति वा अद्योपकरोम्ययं प्रतिकरिष्यतीति वा क्रियमाणः प्रतीकारसन्धिः (७) एकार्थी यात्रामुद्दिश्योभयोर्गमने संयोगसन्धिः (८) आव- योः सेनापतिभ्यां मदर्थः साध्य इति क्रियमाणः पुरुषान्तरसन्धिः (९) त्वयैव मदर्थः साध्य इति क्रियमाणोऽदृष्टपुरुषसन्धिः (१०) ऊर्जितस्य शत्रोर्भूम्येकदे- शेन सन्धिरादिष्टः (११) स्वसैन्येन सह स्वयं शत्रुसमीपमुपगम्य क्रियमाण आत्मामिषसन्धिः (१२) आत्मरक्षार्थ सर्वे दत्त्वा क्रियमाण उपग्रहसन्धिः (१३) सर्वकोशेन कोशांशेन वस्त्रकम्बलादिना वा शेषप्रकृतिरक्षार्थ क्रियमाणः परिक्रयः (१४) सारवतीर्भुवो दत्वा क्रियमाण उच्छिन्नसन्धिः (१५) सर्वभूम्युत्थितफल- दानेन क्रियमाणः परदूषण: (१६) खण्डखण्डेन फलं नीत्वा क्रियमाणः स्कन्धो- पनेयः, प्रतीकारः सङ्गतः सन्तान उपहार इति चत्वार एव सन्धय इति मता- न्तरं, सङ्गतवर्जिताः सर्वेऽन्ये उपहारस्यैव भेदा इति सङ्गत उपहारश्चेति सन्धिद्वयमिति स्वमतं, बालादीनां विंशतिपुरुषाणामसन्धेयता, विग्रहेणैव तेषां वश्यता – (१) बालस्य प्रभुशक्ते विक्रमस्य चाभावात् तदर्थं प्रकृतीनां युद्धा- भावः (२, ३) वृद्धस्य दीर्घरोगिणश्चोत्साहशक्तिहीनत्वात् स्वकीयैरेव परिभवः (४) सर्वज्ञातिबहिष्कृतस्य ज्ञातिभिरेव नाशः (५) भीरोर्युद्धपरित्यागात् क्षिप्रमेव विनाशः (६) भीरुकजनस्य स्वयं वीरस्यापि स्वजनैरवीरैर्युद्धे परित्यागः (७) लुब्धस्यासंविभागित्वादनुजीविनां युद्ध एवाप्रवृत्तिः (८) लुब्धजनस्य विजिगी-