पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

यमतं, त एव मित्रयुक्ताः षट्कं मण्डलमित्यपरं मतं, षट्कमेवेदममात्यादिपञ्चक- युक्तं षट्त्रिंशत्कमिति केषाञ्चिन्मतम्, अरिविजिगीषुमध्यमा एव सप्तप्रकृतिकाः समुदिता एकविंशतिरितीतरन्मतं, पृथमित्रसहिता अरिविजिगीषुमध्यमोदासीना एवामात्यादिपञ्चकयुक्ता अष्टचत्वारिंशत्कमिति; विजिगीषुमण्डलमेव पृथगमात्या- दिपञ्चकयुक्तं षष्टिसङ्ख्यं मण्डलमिति; विजिगीषुरेवारि मित्रपाणिग्राहा क्रन्दसहितः पञ्चकमिति; पञ्चैते पृथगमात्यादिपञ्चकयुक्तास्त्रिंशत्कमिति च मतभेदाः, तत्र पञ्च- कस्य त्रितयस्य वा न्याय्यता, अभियोक्ताभियोज्यश्च द्वे एव प्रकृती इति अरि- विजिगीष्वोरभियोक्तृत्वसाम्यादेकैव प्रकृतिरिति च पराशरमतं, द्वादशराजकस्य सर्वलोकप्रतीतिः । १३. मण्डलचरितप्रकरणम्. ११३ – १२३ पश्चिममित्राभ्यां पश्चिमावरी पूर्वमित्राभ्यां पूर्वशत्रू च विग्राह्य अरिमित्र- मित्रं चोभयमित्रेण संस्तभ्य विजिगीषोः पुरो गमनं, विजिगीषुसहितेनाक्रन्देन पाणिग्राहस्य आक्रन्देन तदासारयुक्तेन पाणिग्राहासारस्य च पीडनम् एवं पीड्यमानस्य शत्रोरुच्छेदप्राप्तिः वशेऽवस्थानं वा, सर्वप्रयत्नेन सामान्यमित्रस्या. त्मसात्करणं, शात्रवहेतुपरिवर्जनं, दुर्गवासिनां माण्डालिकानां मित्रीकरणं, मध्यमे बिजिगीषौ शत्रुणैकीभूयावस्थानं सन्धिर्वा, तथोदासीने सङ्घधर्मेणावस्थानं सन्धि- र्वा, शत्रोः सहजकार्यजत्वभेदेन द्वैविध्यं, समाश्रयविहीनेऽरिसम्पयुक्ते सर्वप्रकृतिना- शनरूपेणोच्छेदनेन विजिगीषोरवस्थानम्, आश्रयमानिनि कोशदण्डरेचनमहामा- त्रवधान्यतररूपेण कर्शनेन वा तद्भिन्नेन पीडनेन वावस्थानं, विजिगीषुगुणान्विते- ऽरिसम्पद्युक्तभिन्ने तु योग्यपुरुषनाशरूपेणापचयेनावस्थानं, सहजशत्रोरिछद्राद्य- भिज्ञतयापकारशक्तिः, बलिना विगृहीतस्य शत्रोरात्मोच्छित्तिपरिहारायानुबलाधानं, कस्यचिच्छत्रोरुच्छेदसमये शत्रोरन्यस्योत्थितौ तस्य स्वाधीनीकरणं, वशंगतस्य तस्य विकारे तत्कुलीनस्य समुन्नयनं, मण्डलसंक्षोभोत्पादकस्य कर्मणः प्रतिषेधः, सामादिभिः स्वप्रकृतिरञ्जनं परप्रकृतिभेदनं च, मित्रस्यापि विकुर्वाणस्यावपीडनं, पक्षपातिन उभयमित्रस्योच्छेदः, अमित्राणामप्युपचयावहानां मित्रीकरणं, मित्रा- णामप्यहितकारिणां परित्यागः, मित्रस्य ज्ञातदोषस्यैव परित्यागः, सदा स्वयमेव दोषगुणान्वेषणं, निर्दोषकोपस्य प्रतिषेधः, उत्तमादीनां मित्राणां तारतम्यविज्ञानं,