सामग्री पर जाएँ

पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/६०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६०८ कादम्बरी । १ 'आर्यपुत्र, सर्वे खलु वयं मृताः सन्तः प्रत्युज्जीविताः परस्परं संघटिताश्च | सा पुनर्वराकी पत्रलेखास्माकं मध्ये न दृश्यते । न विद्यः किं तस्याः केवलाया वृत्तम्' इति । चन्द्रा. पीडमूर्तिः प्रीतान्तरात्मा तो प्रत्यवादीत् – 'प्रिये, कुतोऽत्र | सा हि खलु मदुःखदुःखिन । रोहिणी शप्तं मामुपश्रुत्य कथं त्वमेकाकी मर्त्यलोकनिवास दुःखमनुभवसि' इत्यभिधाय निवा- र्यमाणापि मया प्रथमतरमेव मञ्चरणपरिचर्यायै मर्त्यलोके जन्माग्रहीत् । इँतश्च जन्मान्त में गच्छता मया मदुपरमसमुन्मुक्तशरीरा पुनरपि मर्त्यलोकमवतरन्ती बलादावावर्ज्यात्मलोकं विसर्जिता तत्र पुनस्तां द्रक्ष्यसि' इति । कादम्बरी तु तच्छ्रुत्वा रोहिण्यास्तदोदारतया स्नेह- लतया महानुभावतया संपतिव्रततया पेशलतया च विस्मितहृदया परं लजिता न किंचि- दपि वक्तुं शशाक | । अत्रान्तरे जन्मद्वयाकाङ्क्षितं कालं प्रभोश्चन्द्रमसः कादम्बरीसंभोगसुख मिवोपपादयितुम- पससार वासरः । अनुरागपताकेवोल्लसदपरसंध्यावधूत्रपावरणायेव वितस्तार वासतेयी । चन्द्रोदयाभिरामं च समग्रमेव जगभवत् । एवं च भरेणावतीर्णायां रजन्यां चन्द्रापीडश्चि- राभिलषित मुन्मीलितनयन कुवलय मुत्सस्तनीवीप्रसृत करनिवारणानुबन्धमनुभूतप्रत्यालिङ्गन- सुखमँभिप्रार्थित सुरत परिसमाप्तित्रपासुभगं कादम्बरीप्रथमसुरतसुखमनुभूयैक दिवस मिव दश- FO मूर्तिं चन्द्रापीडशरीरं चन्द्रमसं शशाङ्कमप्रक्षीत्प्रश्नं कृतवती । इतिद्योत्यमाह -आर्येति । हे आर्यपुत्र, सर्वे खलु वयं मृताः सन्तः प्रत्युज्जीविताः परस्परमन्योन्यं संघट्टिताः मिलिताश्च | सा पुनर्वराकी तपस्विनी पत्रलेखे- कास्माकं मध्ये न दृश्यते न दृग्गोचरीक्रियते । न विद्मो न जानीमस्तस्याः केवलाया एका किन्याः वृत्तं किं जातम् । चन्द्रापीडमूर्तिः प्रीतान्तरात्मा संतुष्टात्मा तां कादम्बरीं प्रत्यवादीप्रत्यवोचत् - हे प्रिये हे वल्लभे, अत्र सा पत्रलेखा कुतः स्यात् । हि यस्मात्कारणात् । खल्विति निश्चये । मम दुःखेन दुःखिनी एवंविधा रोहिणी ब्राह्मी शप्तं शापग्रस्तं मामुपश्रुत्वाकर्ण्य कथं त्वमेकाक्यसहायो मर्त्यलोकनिवासदुःखं मनुष्य निवसनकष्टमनुभव- स्यनुभवविषयीकरोषि इत्यभिधायेत्युक्त्वा निवार्यमाणापि प्रतिषिध्यमानापि मया चन्द्रमसा प्रथमतरमेवादाचेच मम चन्द्रमसश्चरणपरिचर्यायै पादसेवायै मर्त्यलोके मनुष्यक्षेत्रे जन्माग्रहीत् । इतश्च जन्मान्तरं भवान्तरं गच्छता व्रजता मया चन्द्रमसा मदुपरमेण सममुन्मुक्तं शरीरं यया सा पुनरपि द्वितीयवारमपि मर्त्यलोकम- वतरन्त्यवतारं गृह्णन्ती बलाद्धठादावर्ज्यावर्जनां कृत्वात्मलोकं चन्द्रलोकं विसर्जिता | प्रेषितेत्यर्थः । तत्र संप्रति पुनस्तां द्रक्ष्यसि विलोकयिष्यसीति । कादम्बरी तु तच्छ्रुत्वा तदाकर्ण्य रोहिण्यास्तदोदारतया स्नेहलतया वत्स लतया महानुभावतया महाप्रभावतया सपतिव्रततया एकपतितया पेशलतया हृद्यतया च विस्मृतहृदया चम त्कृतचित्ता परमुत्कृष्टं लजिता लज्जां प्राप्ता न किंचिदपि वक्तुं कथयितुं शशाक समर्था बभूव । अत्रान्तरेऽस्मिन्समये जन्मद्वयाकाङ्क्षतं भवान्तरद्वयाभिलषितं कालं प्रभोश्चन्द्रमसः कादम्बरीसंभोगसुख. मिवोपपादयितुं निष्पादयितुं वासरो दिवसोऽपस पुरा स बभवाअन त्यानतेः पत केववै यन्तीवो सर्न्त