पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/६०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उत्तरभागः | आगतयोश्च तयोर्लज्जितात्मजोपगममुदित हृदययोजमातृदर्शन समुत्फुल्लनयनयोतारापीडशु- कनासाभ्यां सहानुभूतसंबन्धकोचितसंवादकथयोः सहस्रगुण इव महोत्सवः प्रावर्तत ६०७ अथ प्रवर्तमान एव तस्मिंश्चित्ररथस्तारापीडमवादीत्– 'विद्यमाने स्वभवने किमर्थमय- मरण्ये महोत्सवः क्रियते । अपि च यद्यप्यस्माकमयमेव परस्परामिरुचिनिष्पन्नो धम्यों विवाहस्तथापि लोकसंव्यवहारोऽनुवर्तनीय एव । तद्गम्यतां तावदस्मदीयमवस्थानम् । ततः स्वभूमि चन्द्रलोकं वा गमिष्यथ । तारापीडस्तु तं प्रत्यवादीत् - 'गन्धर्वराज, यत्रैव निरति- शयं संपत्सुखं तदेव वनमपि भवनम् । तदीदृशं कापरत्र संपत्सुखं प्राप्तम् । अन्यच्च संप्रति सर्वगृहाण्येव मया जामातरि ते संक्रामितानि | तद्वयस्य, वधूसमेतं तमेवादाय गम्यतां गृह- सुखानुभवनाय' इति । चित्ररथस्तु तथामिहितः 'राजर्षे, यथा ते रोचते' इत्युक्त्वा चन्द्रा- पीडमादाय हेमकूटमगात् । गत्वा च चित्ररथः कादम्बर्या सह समग्रमेव स्वं राज्यं चन्द्रा- पीडाय न्यवेदयत् । पुण्डरीकायापि समं महाश्वेतया निजपदं हंसः | तौ तु हृदयरुचितवधू- लम्भमात्रकेणैव कृतार्थी न किंचिदप्यपरं प्रत्यपद्येताम् । अन्यदा जन्माभिवाञ्छित हृदय वल्लभलाभमुदित सर्वस्व जनमध्योपैगमन निर्वृतापि काद- म्बरी बाष्पोत्तरललोचना विषण्णमुखी वासभवनागतं चन्द्रापीडमूर्ति चन्द्रमसमप्राक्षीत् नीभ्यां समं चित्ररथहंसौ कादम्बरी महाश्वेतापितरौ गन्धर्वराजौ गन्धर्वनायकावपि तत्रैवाजग्मतुराययतुः । आगतयोश्च तयोर्लजिते त्रपिते ये आत्मजे पुग्यौ तयोरुपगमः प्राप्तिस्तेन मुदितं हर्षितं हृदयं ययोस्ती तयोर्जामातृदर्शनेन दुहितुः पत्यवलोकनेन समुत्फुल्ले विकसिते नयने ययोस्तौ तयोः | क्वचित् 'वदनयोः' इति पाठः । तारापीडशुकनासाभ्यां सहानुभूतः संजातो यः संवन्धकस्तस्योचिता योग्याः संवादकथा य योस्तौ तयोः सहस्रगुण इव महोत्सवः प्रावर्तत प्रवृत्तोऽभूत् । अथेति । तदनन्तरं प्रवर्तमाने संजायमान एव तस्मिन्महोत्सवे चित्ररथस्तारापीडमवादीदब्रवीत् । तदेवाह — विद्यमान इति । स्वभवने वकीयसद्मनि विद्यमाने वर्तमानेऽयं महोत्सवः किमर्थं किंप्रयोजन- मरण्ये क्रियतेsटव्यां विधीयते । अपि च प्रकारान्तरे । यद्ययस्माकमयमेव परस्परमन्योन्यं याभिरुचिरभिला- घरतया निष्पन्नो धर्मो विवाहस्तथापि लोकसंव्यवहारोऽनुवर्तनीय एव रक्षणीय एव | तदस्मदीयमास्माकीन- मवस्थानमास्पदं तावद्गम्यताम् । ततस्तदनन्तरं स्वभूमिं चन्द्रलोकं वा गमिष्यथ यास्यथ | तारापीडस्तु तं चि- त्ररथं प्रत्यवादीत्प्रत्यवोचत् । हे गन्धर्वराज, यत्रैव निरतिशयमधिकं संपत्सुखं तदेव वनमपि भवनं गृहम् । 'तदीदृशमपरनान्यत्र व कुत्र मया संपत्सुखं प्राप्तं लब्धम् । अन्यच्च संप्रतीदानीं सर्वगृहाण्येव मया ते तव जामातरि दुहितुः पतौ संक्रामितानि संकल्पितानि । तत्तस्माद्वेतोर्हे वयस्य हे मित्र, वधूसमेतं तमेव वरमे- वादाय गृहीत्वा गृहसुखण्यानुभवनं साक्षात्करणं तस्मै गम्यतां व्रज्यताम् । चित्ररथस्तु तथा भिहितस्तेन प्रकारे का चित्ररथः काट-