६०६ कादम्बरी | तु तथा पित्रा प्रणते तस्मिन्परितोषेण स्वाङ्गेष्विवासंमान्ती तं पुनः शिरसि पुनर्ललाटे पु कपोलयोश्चुम्बित्वा गाढतरं सुचिरमालिलिङ्ग | उन्मुक्तश्च मात्रोपसृत्य पुनः पुनः कृत स्कार : शुकनासं प्रणनाम | आशीः सहस्राभिवर्धितञ्च तेनात्मनोपसृत्य यथानुक्रमं ि शुकनासस्य मनोरमायाश्चैष वो वैशम्पायन इति पुण्डरीकं विनैयविलक्षावनम्रवदनमदर्शय तस्मिन्नेव च प्रस्तावे समुपसृत्य कपिजलः शुकनासमवादीत् – ' एवं संदिष्टमार्यस्य वता श्वेतकेतुना । अयं खलु पुण्डरीकः संवर्धित एव केवलं मया । आत्मजः पुनस्त अस्यापि भवत्स्वेव लग्नः स्नेहः । तद्वैशम्पायन एवायमित्येवेमगत्याविनयेभ्यो निवारणी- परोऽयमिति कृत्वा नोपेक्षणीयः । यच्चापगतज्ञापोऽप्यात्मसमीपं नानीतस्तत्तवैवायम्' इ अन्यच्चात्मानमस्मिन्नौचन्द्रकालीनायुषि स्थापयित्वा कृतार्थः । संप्रत्यस्माद्दिव्यलोकादप्यु ष्टागन्तुमुद्यतं मे सत्त्वाख्यं ज्योतिः' इति । शुक्रनासस्तु विनयावनतं पुण्डरीकं पाणिन ऽवलम्ब्य कपिञ्जलं प्रत्यवादीत् – कपिञ्जल, सकलजगदाशयज्ञेन सता भगवता किमि दिष्टम् । सर्वथा स्नेहस्यायमसंतोषः' इति । एवंविषैश्च पूर्वजन्मवृत्तान्तानुस्मरणालापैः प रावलोकनसुखोत्फुल्ललोचनानां सर्वेषामेव तेषामचेतितैव सा क्षणदा प्रयाता । प्रातरेव सकलगन्धर्वलोकानुगतौ सममँचिरागौरीभ्यां चित्ररथहंसौ गन्धर्वराजावपि तत्रैवाजग्म प्रकारेण पित्रा तारापीडेन प्रणते नते तस्मिंश्चन्द्रापीडे परितोषेण हर्षेण खाले विवासमान्ती प्रवेशम माना । एतेन प्रमोदातिरेकः सूचितः । तं सुतं पुनः शिरस्युत्तमाङ्गे, पुनर्ललाटेलिके भालस्थले, पुनः लयोर्गलात्परप्रदेशयोश्चम्वित्वा चुम्वनं कृत्वा गाढतरमतिदृढं सुचिरं बहुकालमालिलिङ्ग | आलिङ्ग्य उन्मु मात्रा विलासवत्योपसृत्य समीपे गत्वा पुनः पुनः कृतनमस्कारो विहितनमस्कृतिः शुकनासं प्रणनाम नम चक्रे | तेन शुकना सेनाशीः सहस्रैर्माङ्गल्या भिवादनसहस्रैरभिवार्धतोऽभिनन्दितश्चात्मना स्वयमपसृत्या पसरणं यथानुक्रमं यथाक्रमं पित्रोः शुकनासस्य मनोरमायाश्चैष वो युष्माकं वैशम्पायन इति पुण्डरीकं विनयेन विस्मयान्वितम् । ‘विलक्षो विस्मयान्विते' इत्यमरः । अवनम्रमवनतं वदनं यस्य स तमदर्शय दर्शयाम तस्मिन्नेव प्रस्तावे समये समुपसृत्य पार्श्व समागत्य कपिअलः शुकनासमवादीदवोचत् । अ भवतः श्वेतकेतुना भगवतैवं संदिष्टं कथितं वर्तते । खल्विति निश्चये । अयं पुण्डरीकः केवलं संवर्धित एव वृद्धिं प्रापित एव । आत्मजः पुत्रः पुनः पुनस्तव भवतः । अस्यापि पुण्डरीकस्यापि भव स्नेहो लग्नः संबद्धः । तदिति हेत्वर्थे । वैशम्पायन एवायं पुण्डरीक इत्येवमवगत्य ज्ञात्वाविन निवारणीयो दूरीकार्यः । अयं परोऽन्य इति ज्ञात्वा नोपेक्षणीयो नोपेक्षाविषयीकर्तव्यः । यच्चापगतः ऽप्यात्मसमीपं स्वसविधं नानीतो न प्रापितस्तत्तस्मात्तवैव भवदीय एवायमिति । अन्यच्च चन्द्रकालवन डावस्थानलक्षणस्तत्र भवमायुस्तस्मिन् । 'आत्मा वै जायते पुत्रः' इति श्रुतेः । आत्मानं पुत्रं स्थाप यावत्कालं चन्द्रापीडः स्थास्यति तावत्कालमय मिति भावः । अत एव कृतार्थः कृतकृत्यः । संप्रतीदा
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/६०३
दिखावट