पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/६०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उत्तरभागः । ६०९ स्थित्वा परितुष्टहृदयाभ्यां श्वशुराभ्यां विसर्जितः पितुः पादमूलमाजगाम । आगत्य च कालमेवानुभूतलेशं राजलोकमात्मसमं कृत्वा समारोपितराज्यभारः पुण्डरीके परित्यक्त- त्वकार्ययोः पित्रोः पादावनुचरत्, कदाचिदत्यद्भुतोत्फुल्लनयन नैग मजनावलो कितो जन्म- मेस्नेहादुज्जयिन्याम्, कदाचिद्गन्धर्वराजगौरवेणानुपमरमणीयतममहिनि हेमकूटे, कदाचि- नृतपरिमलाधिवाससुरभिशिशिरसर्व प्रदेशहारिणि रोहिणीबहुमाननेन चन्द्रलोके, कदाचि- हर्निशोत्फुल्लसहस्रपत्र निवेहोदकवाहिनि पुण्डरीकप्रीया लक्ष्मीनिवाससरसि, कादम्बरी- रुच्या च सर्वत्रैवापरेष्वपि रैम्यतरेषु तेषु तेषु स्थानेषु तथा सह जन्मद्वयाकायैवारिसमा- मान्यपुनरुक्तानि च तानि तानि न केवलं चन्द्रमा: कादम्बर्या सह कादम्बरी महाश्वेतया लह महाश्वेता तु पुण्डरीकेण सह पुण्डरीकोऽपि चन्द्रमसा सह परस्परावियोगेन सर्व एव सर्वकालं सुखान्यनुभवन्तः परां कोटिमानन्दस्याध्यगच्छन् || समाप्तिर्यस्यामेवंविधा या त्रपा लज्जा तथा सुभगं मनोहरमेतादृशं कादम्बर्याः प्रथमं सुरतस्य सुखं सातमनु- भूय साक्षात्कृत्यै कदिव समिव दशरात्रं दशदिवसं स्थित्वास्थाय परितुष्टहृदयाभ्यां संतुष्टचित्ताभ्यां श्वशुराभ्यां चि त्ररथहंसाभ्यां विसर्जितो दत्ताज्ञः पितुस्तारापीडस्य पादमूलं चरणसमीपमाजगामाययौ । आगत्य चागमनं कृत्वा च समकालमेवैकवारमेवानुभूतः क्लेशो दुःखं यैरेवंभूतं राजलोकं नृपजनमात्मसमं निजसदृशं स्वतुल्यं कृत्वा वि. धाय पुण्डरीके समारोपितो न्यस्तो राज्यभार आधिपत्यभूर्येन सः | परित्यक्तमुज्झितं सर्व स्वकार्य सांसारिककलं याभ्यां तौ तयोः । माता च पिता च पितरौ । एकशेषः । तयोः पित्रोः पादौ चरणावनुचरन्सेवयन् | कदाचि- तक स्मिंश्चिदवस रेऽत्यद्भुतोत्फुल्लनयना विकसितनेत्रा ये नैगमजना वणिग्जनास्तैरवलोकितो वीक्षितो जन्मभूमिले हादुत्पत्तिवसुधात्री तेरुज्जयिन्यां विशालायाम् | कदाचित्कस्मिंश्चित्प्रस्तावे गन्धर्वराजस्य गौरवेणात्यादरेणानुपमो मनोहरो रमणीयतमोऽतिशयेन रन्तुं योग्यो महिमा माहात्म्यं यस्मिन्नेतादृशे हेमकूटे | कदाचिद्रोहिणीबहुमानेन ब्राह्मी... कारेणामृतस्य पीयूषस्य परिमल आमोदस्तस्याधिवासेन संस्कारेण सुरभिः सुगन्धो यः शिशिरः शी- तलः सर्वप्रदेशः समग्रस्थलं तेन हारिणी मनोहरे चन्द्रलोके । कदाचिदहर्निश महोरात्रमुत्फुल्लानि विस्मेराणि सहस्रपत्राणि तेषां निवहः समूहो यस्मिन्नेतादृशमुदकं जलं वहतीत्येवंशीले | उदकस्योदादेशः | पुण्डरीकप्री- या पुण्डरीकम्नेहेन लक्ष्म्या रमाया निवाससरस्यवस्थानसरसि कासारे | क्वचित् 'सहस्रपत्रामोदवाहिनि' इति पाठः । कादम्बरीरुच्या च कादम्बर्याः स्पृहया चापरेष्वपीत रेष्वपि रम्यतरेष्वतिमनोहरेषु तेषु तेषु स्थानेषु प्रदे- शेषु | सर्वत्रैव तया कादम्बर्या सह जन्मद्वयाकायेव भवान्तरद्वयवाञ्छ्यैवापरिसमाप्तान्य परिपूर्णान्यपुनरुक्तानि चौंकदाचिदसेवितानि । प्रतिदिननवीनानीत्यर्थः । तानि तानि च वक्तुमशक्यानि न केवलं चन्द्रमाः कादम्वर्या सह, किं तु कादम्बरी महाश्वेतया सह, महाश्वेता पुण्डरीकेण, पुण्डरीकोऽपि चन्द्रमसा सह, परस्परमन्योन्य- गर्न Ta strona