पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उत्तरभागः । कुसुमतल्पकल्पनाकुलेन धारागृहजलयन्त्रप्रवर्तनोहतार्तिना मणिकुट्टिमक्षालनामहस्तेनं च सें- जल कि जल्कजलजोपचारप्रकरसंभ्रान्तेन च शिशिरभूगृहाभ्यन्तरप्रत्यवेक्षणदक्षेण चोद्यान- दीर्घिकातटलतागहन मण्डपसकतापहारिणा च मैलयजरसचन्द्रार्द्रजलचन्द्राश्रयावधानदानो- द्यतेन चाप्तपरिजनेनोपचर्यमाणस्यापि काष्ठीभूतदेहस्य दाहक्षमो झटित्येवाहरोह परां कोटिं कामानल: । राज्ञ एव तुल्यावस्थस्य महाश्वेतोत्कण्ठया पुण्डरीकात्मनो वैशम्पायनस्य च । तस्मिन्नेव चान्तरे तत्संधुक्षणायेव प्रवर्तयन्सरस किसलयलतालास्योपदेशदक्षं दक्षिणानि - लम्, आलोलरक्तपल्लवप्रीलम्बान्कम्पयन्नशोकशाखिनः, वौञ्छितमुकुलमञ्जरीभरेण नम्रय- न्बालसहकारान्, उत्कोरकयन्कुरुबकैः सह बकुलतिलक चम्पकनीपान, ऑपीतयनिक किरातैः कैकुंभान्, विकिरन्नतिक्तकामोदम्, उद्दामयन्किशुकवनानि निरङ्कुशयन्का मिजनमनांसि, । म्भसा योऽनिलो वायुस्तं संचारयति प्रवर्तयतीत्येवंशीलः स तथा तेन । कुसुमैः पुष्पैर्या तल्पकल्पना शय्याविरचना तेनाकुलेन व्याकुलेन । धारागृहस्य जलयात्राणां प्रवर्तनात्प्रक्षरणादा ईषद्धृता दूरीभूतार्तिर्यस्य स तेन । मणिकुहिमस्य क्षालना धावनं तत्राग्रहस्तो यस्य स तेन । 'आयस्तेन' इति पाठ आयस्तेन खिन्नेनेत्यर्थः । सजलानि जलसहितानि किअल्कजलजानि केसरोपयुक्तकमलानि तेषामुपचारः प्रकार उपचरणं तेन संभ्रा- न्तेन मूढेन । शिशिरं शीतलं यद्भूगृहं भूमिस्थं सदनं तस्य अभ्यन्तरं मध्यं तस्य प्रत्यवेक्षणं गवेषणं तत्र दक्षेण चतुरेण । उद्यानस्य दीर्घिका वापी तस्यास्तदं तीरं तस्य लतागहनमण्डपो जनाश्रयस्तत्र यः सेकः सिञ्चनं तेन ताप - मपहरतीत्येवंशीलः स्वभावः स तथा तेन मलयजरसश्चन्दलद्रवश्चन्द्रः कर्पूर आर्द्र जलं चन्द्रस्य शशाङ्कस्या श्रय आश्रयणमेतैरवधानदानं समाधिदानं तत्रोद्यतेनोद्युक्तेन । 'अवधानसमाधान प्रणिधानानि तु समाधौ स्युः' इति हैमः । आप्तो विश्वस्तो यः परिजनः परिच्छदस्तेनोपचर्य माणस्योपचार विषयी क्रियमाणस्यापि काष्ठीभूता देहस्य दारुसादृश्यमापनशरीरस्य दाहे क्षमः समर्थ: कामानलो मदनवहिः क्षणेन परां कोटिं झटित्येव तत्काल मेवा रुरोहारूढवान् । राज्ञ एव तुल्यावस्थस्य सदृशावस्थस्य महाश्वेताया उत्कण्ठयोत्कलिकय - पुण्डरीकात्मनो वैशम्पायनस्य च । मदनानलः परां कोटिमारुरोहेत्यत्रापि संयोज्यम् । तृतीयान्तानि सर्वाण्यातपरिजनस्य विशेषणानि | तस्मिन्नेव चान्तरे विचाले तस्य संधुक्षणायेव तदुद्दीपनायेव सुरभिमासो वसन्तः प्रावर्तत प्रवृत्तो बभूव । 'सुरभिश्चम्पके स्वर्णे जातीफलवसन्तयोः । गन्धोत्पले सौरभेय्यां शल्लकीमातृभेदयोः ॥ सुगन्धे च मनोज्ञे न्च चाच्यवत्सुरभि स्मृतम्' इति विश्वः । किं कुर्वन् । प्रवर्तयन्प्रवृत्तिं कारयन् किम् । दक्षिणा- वि भलं मलयमास्तम् । कीदृशम् । सरसानि रसोपयुक्तानि किसलयानि यासामेवंविधा लता वल्लयस्तासां लास्योपदेशो नृत्योपदेशस्तत्र दक्षं चतुरम् | आलोलाश्चपलाश्चञ्चला रक्तपल्लवा लोहित किसलयास्तेषां प्रालम्बाः समूहा येषु तानशोकशाखिनः केसरवृक्षान्कम्पयन् | वाञ्छिते मुकुलमञ्जय कुङ्मलवलय तयोर्भरेण बाल- सहकारानवीनचूतान्नम्म्रयन्नम्रतां नयनू । कुरुबकैर्वृक्षविशेषैः सह बकुलः केसरः, तिलको वृक्षविशेषः,