पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६०२ कादम्बरी । निर्मूलयन्मानम्, अपमार्जयँडज्जाम्, अपाकुर्वन्कोपम्, अपनयन्ननुनयव्यवस्थाम्, व्यवस्थों- पयन्हैठचुम्बनालिङ्गनरतस्थितिम्, समुल्लासयन्मकरध्वजरक्तध्वजानिव किंशुकानि, सकल- मेव महारजतमयमिव रागमयमिव मैदनमयमिवोन्मादमयमिव प्रेममयमिवोत्सवमय- मित्रौत्सुक्यमयमिव जनयञ्जीवलोकम्, किसलयित सकलकान्तारकाननोपवनत रुरुत्फुल्ल - चूतद्रुमामोदवासितदशाशान्तरो मधुमदमधुरकोकिलाँलापदुःखिताध्वगजनश्रुतिरनवरतम- करन्दसीकरासारदुर्दिनोन्मादितसकलजीवलोक हृदयो मदाकुलभ्रमद्धमरझंकारकातेरितविर- हातुरमनोवृत्तिरात्मसंभवैकोल्लासकारी भरात्परावर्तत सुरभिमासः । येन च कुसुमधन्वनः परमात्रेण मधुना पर्याकुलितहृदया कादम्बरी संप्राप्ते भगवतः कामदेवस्य मँहे महता प्रयत्नेन कथंकथमप्यतिवाहितदिवसा श्यामायमानदशदिशि सायाह्ने स्नात्वा निर्वर्तितकामदेवपूजा तस्य पुरश्चन्द्रापीडमतिसुरभिशीतलैः स्नापयित्वाम्भोभिरा चरणाद्विलिप्य मृगमदामोदिना हरिचन्दनेन सुरभिकुसुमस्रग्भिरुद्रथितं कुन्तलकलापं कृत्वैककर्णार्पित सत्किसलयाशोकस्तब- ११ १३ 40 , मानं गर्व निर्मूलयन्वुघ्नत उत्पाटयन् । लज्जां त्रपामपमार्जयन्फोटयन् | कोपं क्रोधम् । अर्थात् कामिन- कृतम् | अपाकुर्वन्दुरीकुर्वन्निराकुर्वन् | अनुनयव्यवस्थां प्रणिपातमर्यादामपनयन्निराकुर्वन् । हटेन बलेन चुम्ब नमास्यलेहनम्, आलिङ्गनमुपगूहनम्, रतिः संभोगः, एतासां स्थितिं मर्यादां व्यवस्थापयन्व्यवस्थां कुर्वन् । मकर- ध्वजस्य कामस्य रक्तध्वजानिव किंशुकानि किंशुकपुष्पाण्यरुणवैजयन्त्य इव समुल्लासयन्प्रकाशयन्। महारजतमय- मिव सुवर्णमय मिच,रागमय मिवानुरागमय मिव, मदनमय मिव कंदर्पमय मिव उन्मादमयमिव चित्तविष्ठवमय मिव प्रेममयमिव स्नेहमयमिव उत्सवमयमिव महोमयमिव औत्सुक्यमयमिव रणरणकमयमिव एवंविधं सकल- मेव समग्रमेव जीवलोकं विष्टपं जनयन्विदधन् । किसलयिताः संजात किसलयाः सकलाः सममाः कान्तार- काननोपवनतरवो येन सः । तत्र कान्तारशून्या देवी काननं निर्मानुषं वनमुपवनं नगरसमीपवर्तिनम् | उत्फुल्लाः प्रफुल्ला ये चूतडमा आम्रवृक्षास्तेषामामोदः परिमलस्तेन वासितं सुरभीकृतं दशदिशामन्तरं विचालं येन सः । मधुनो यो मदस्तेन मधुरो मिष्टो यः कोकिलालापस्तेन दुःखिता अध्वगजनाः पान्थजनास्तेषां श्रुतिः श्रवणं यस्मिन्सः । अनवरतं निरन्तरं यो मकरन्दसीकरासारो मकरन्दवातास्तबिन्दुवेगवस्तदेव दुर्दिनं मेघर्ज तमस्तेनोन्मादितान्युन्मादं प्रापितानि सकलजीवलोकहृदयानि येन सः मदाकुला ये भ्रमन्तो भ्रमराः शिलीमु सास्तेषां झंकारा झंकृतयस्तैः कातरिता कातरीकृता विरहातुरजनानां मनोवृत्तिर्येन सः । आत्मसंभवश. काम स्यैकोऽद्वितीय उल्लासकारी प्रकाशकारी सुरभिमासः प्रावर्ततेत्यन्वयस्तु प्रागुक्त एव । येन कुसुधन्व कंदर्पस्य परमात्रेणात्युत्कृष्टशस्त्रेण मधुना वसन्तेन पर्याकुलितहृदया व्याकुलितचित्ता कादम्बरी भगवतः कामदेवस्य मह उत्सवे संप्राप्ते समागते सति महता प्रयत्नेनोद्यमेन कथंकथमपि महता कष्टेनातिवाहित दिवसा अतिक्रान्तवासराः श्यामायमानाः कृष्णायमाना दशदिशो यस्मिन्नेवंभूता सायाहे संध्यायां स्नात्वा स्नानं कृत्वा निर्वार्ता वि