पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६०० कादम्बरी । छतस्तां प्रकोपयतस्तामनुनयतस्तस्याः पादयोः पततस्तया सह केलिं कुर्वतस्तां रममाणस्य मु क्तसर्वान्यक्रियस्य दिवाप्यनुम्मीलितलोचनस्य रात्रावप्यनुपजातनिद्रस्य सुहृज्जन मध्ये संभाष- यतः कार्योपगतानप्यजानतो गुरुजैनमध्यनमस्यतो धर्मक्रियामप्यकुर्वाणस्य सुखादयन- र्थिनो दुःखादप्यनुद्विजमानस्य मरणादण्यविभ्यतो गुरुभ्योऽप्यपेतलज्जस्यात्मन्यपि विगलित- स्नेहस्य किं बहुना कादम्बरीसमागमे ऽप्यनुद्यमस्य केवलमस्यै मुहुर्मुहुर्मूच्छोंपेंगमच्छलेन जी- वितोत्सर्गयोग्यामिव कुर्वतो विहस्तेनापि प्रतिपन्नविविधोपकरणेन गलितनयनपयसाप्यु- च्छुष्काननेन मुषितवचनावकाशेनापि वैशम्पायनक्रोशनपरेणानवरतमा चरणाद्विकीर्णचन्द- नचर्चेण चरणतलनिवेशितार्द्रारविन्दिनीदलेन करार्पित कर्पूरक्षोददन्तुरतुषारखण्डेन हृदयवि- निहितहिमाद्रहारदण्डेन कपोलतलस्थापित स्फटिकमणिदर्पणेन ललाटतटघटितचन्द्रमणिनांस- देशावस्थापितमृणालनालेन कदलीदलव्यजनवाहिनानर्तिततालवृन्तेन जलार्द्रानिलसंचारिणा स्पृहयतः । तामेव पश्यतो विलोक्यतः । तामेवालपतः संभाषणं कुर्वतस्ता मेवालापं कुर्वतः । तामेवालिङ्गतः परि- ध्वजत आलिङ्गनं कुर्वतः । तया गन्धर्वराजपुत्र्या सह तिष्ठतः स्थितिं कुर्वतः । तां प्रकोपयतो रोषयतः । तामनुनयतः प्रसन्नीकुर्व॑तः । तस्या गन्धर्वपुत्र्याः पादयोः क्रमयोश्चरणयोः पततः पतनं विदधतः । तया सह केलिं रतिक्रीडां कामकेलिं प्रेमक्रीडां कुर्वतो विदधतः । तां रममाणस्य क्रीडां कुर्वतः । मुक्तास्त्यक्तास्त्याजिताः सर्वाः समग्रा अन्यक्रिया इतरव्यापारा येन स तस्य मुक्तसर्वान्यक्रियस्य | दिवापि वासरेऽपि दिवसेऽप्यनुन्मीलिते मुद्रिते लोचने यस्य स तथा तस्य | रात्रावपि निशायामपि यामिन्यामप्यनुपजाताप्राप्ता नागता निद्रा प्रमीला यस्य स तथा तस्य । सुहृज्जनमपि मित्रजनमपि वलभजनमप्यसंभाषयतोऽनालापयतः । कार्यार्थमुपगतं प्रा- समप्यजानतोऽज्ञातवतः । गुरुजनमपि पूज्यजनमपि वृद्धजनमप्यनमस्यतो नमस्कारमकुर्वतः | धर्मकियामपि सुकृतकृत्यान्यपि पुण्यकृत्यान्यप्यकुर्वाणस्याविदधानस्य | सुखादपि सौख्यादप्यनर्थिनोऽनभिलाषुकस्य | दुःखा- दपि कृच्छ्रादपि कष्टादप्यनुद्विजमानस्यानुद्वेगं प्राप्यमाणस्य | मरणादपि मृत्योरप्यविभ्यतो भयमकुर्वतः । गुरु- भ्योऽपि धर्मोपदेश केभ्योऽप्यपेतलज्जस्य विगतत्रपस्य व्यक्तलज्जस्य | आत्मन्यपि स्वस्मिन्नपि विगलितो गतः स्नेहो हार्द यस्य स तथा तस्य । किं बहुना कथनेन । कादम्बरीसमागमेऽप्यनुद्यमस्यानुद्यतस्य गतोद्यमस्य के वलमस्य राज्ञो मुहुर्मुहुर्वारंवारं मूर्छाया मोहस्योपगमच्छलेनागमनमिषेण जीवितस्योत्सर्गस्त्यागस्तस्य यो ग्यामिव कुर्वतो विहस्तेनापि व्याकुलेनापि प्रतिपन्नमङ्गीकृतं विविधमुपकरणं तन्त्रं येन स तेन । अत्रापिश ब्दो विरोधालंकृतिद्योतनार्थः । यो विहस्तो भवति स प्रतिपन्नोपकरणो न स्यादिति विरोध: । तत्परिहारस्तु विहस्तो व्याकुल इत्यर्थात् । 'विहस्तव्याकुलौ व्यग्रे' इति हैमः । गलितं स्रस्तं नयनपयो नेत्रजलं यस्यैवंभूतेना- प्युच्छुष्कमाननं मुखं यस्य स तेन | मुषितो गृहीतो वचनस्यावकाशोऽवगाहः प्रवेशस्थलं यस्यैवंभूतेनाप्याक्रो- शनं तत्र परेणासक्तेनानवरतं निरन्तरमा चरणाचरणौ मर्यादीकृत्य विकीर्णा विक्षिप्ता चन्दनचर्चा मलयजपूजा .