पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

े उत्तरभागः । ५९९ युगुलमथुजलमुत्ससर्ज | पाण्डुतां च वंदनलावण्यमयासीत् । तद्धनुर्गुणध्वाना कर्णनोद्वेजित- मिव हृदयवेदनाकूणितत्रिभागं नयनयुगलमभवत् । अन्तर्ज्वलिष्यतो मदनदहनस्य धूमोपह तमिव वेपमानमधर किसलयं शोषमगात् । तैत्तापविरसमाननान्निष्पीडितं सरागं हृदयमिव ताम्बूलमपतत् । आर्द्रस्य दारुण इव दह्यमानस्याङ्गेभ्यो निरगमत्स्वेदः । मदनशर की लितानीव तावतैव क्षणेनाङ्गानि परवशान्यजायन्त । तथा च कादम्बरीं पुरस्कृत्य कुसुमधन्वनायास्यमा- नस्य तदवयवरूपशोभाविनिर्जितानि तापापहरणक्षमाण्यपि तैस्याकिंचित्कराण्यभवन् । तथा हि । कमलकिसलयानि पाणिपादेन, कुवलयदलस्रजो दृष्ट्या, मणिदर्पणाः कपोलेन मृणा- लानि बाहुलतिकया, शशाङ्करश्मयो नखमयूखैः, घनसारधूलि: स्मितप्रभया, मुक्तादामानि दशन किरणै: अमृतकरबिम्बं मुखेन, ज्योत्स्ना लावण्येन, मणिवेदिकाकुट्टिमानि नितम्बेन । एवं च विहतसर्वबाह्यप्रक्रियस्य हृदयेऽप्यसुखायमानसकलान्यविनोदस्य तामेवाभिध्यायत- स्ता मेवोत्प्रेक्षमाणस्य तामेवाभिलपतस्तामेव पश्यतस्ता मेवालपतस्ता मेवालिङ्गतस्तया सह ति- । १ रोमाञ्चिनी तनुरजायताभूत् । तस्य कामस्य विशिखा बाणास्तेषां रजो धूलिस्तेन रूषितमिव रूक्षमिव नयन- युगुलं नेत्रयुग्ममश्रुजलं नेत्रपानी यमुत्ससर्जोत्प्राबल्येन तत्याज | वदनलावण्यं च पाण्डतामीषच्छुक्कृतां चा- यासीदगात् । तस्य कामस्य धनुश्चापं तस्य गुणः शिञ्जिनी तस्य ध्वानः शब्दरतस्याकर्णनं श्रवणं तेनोद्वेजित- मिवोद्वेगं प्रापितमिव हृदयवेदनयाकूणित ईषद्वकीकृतस्विभागस्तृतीयांशो यस्य तदेवंभूतं नयनयुगलं नेत्रयुग्म- मभवद्वभूव । अन्तर्मध्ये ज्वलिष्यतः प्रज्वलिष्यतो मदनदहनस्य कामवद्वेधूमोपहतमिव दहनकेतनोपहत- मिव वेपमानं कम्पमानमधर किसलयं दन्तच्छदपल्लवं शोषमगाजगाम । तस्य कामस्य तापस्तेन विरसमानं वि रसतां भजमानमति निष्पीडितं सरागं हृदयमिव ताम्बूलमपत दस्रंसत | आर्द्रस्योन्नस्य दारुण इव काष्ठस्येव द- ह्यमानस्य ज्वलमानस्याङ्गेभ्यो हस्तपादादिभ्यः स्वेदो घर्मजलं निरगमन्निरगात् । मदनशरेण कामवाणेन कीलिता- नीव यन्त्रितानीव तावतैव क्षणेन स्वल्पकालेनाङ्गानि परवशानि परायत्तान्यजायन्त समपद्यत । तथा चेति । कादम्बरीं पुरस्कृत्याग्रे कृत्वा कुसुमधन्वना कामेनायास्यमानस्य पीड्यमानस्य तस्यावयवा हस्तपादादयस्तेषां रूपं सौन्दर्य तस्य शोभा श्रीस्तया विनिर्जितान्यभिभूतान्यत एव तापस्य तप्तेरपहरणे दूरीकरणे क्षमाण्यपि समर्थान्यपि निर्जितत्वात्तस्याकिंचित्कराणि निष्प्रयोजनान्यभवन्नासन् । तदेव दर्शयति — तथेति । कमलकिसलयानि पद्मनव- पत्राणि | पाणी च पादौ च पाणिपादम्। 'द्वन्द्वश्च प्राणितूर्य सेनानानाम्' इत्येकवद्भावः । तेन निर्जिता नीति सर्वत्र सं बन्धः | कुवलयानामुत्पलानां दलानि पत्राणि तेषां स्रजो माला दृष्ट्या दृशा | मणिदर्पणा रत्नादर्शाः कपोलेन गल्लात्पर- प्रदेशेन | मृणालानि तन्तुलानि बाहुल तिकया भुजवलया। शशाङ्करश्मयश्चन्द्रकिरणा नखमयूखैः पुनर्भवरश्मिभिः घनसार धूलिः कर्पूररजः स्मितप्रभया हास्यकान्त्या | मुक्तादामानि मुक्ताकलापा दशन किरणैर्दन्तरश्मिभिः | अमृ तकर बिभ्वं चन्द्रमण्डलं मुखेनास्येन | ज्योत्स्ना चन्द्रिका लावण्येन कान्तिविशेषेण | 'मुक्ताफलस्य छा प्यास्तर-