सामग्री पर जाएँ

पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कादम्बरी । ५९६ 3 वत्येव । तथद्येवंविधस्त्वं कोऽपि भोज्याभोज्यविवेककारी पूर्वजातिस्मरोऽस्मदीयमाहारं परि- हरसि । तथापि तावद्भक्ष्याभक्ष्यविवेकरहितायां तिर्यग्जातौ वर्तमानस्य ते किं वाभक्ष्यम् । यन्न भक्षयसि । येन चोत्कृष्टतमां जातिं प्राप्यात्मनैवेशं कर्म कृतं येन तिर्यग्योनी पतितः से किमपरं विचारयसि । प्रथममेवात्मा न विवेके स्थापितः | अधुना स्वकर्मोपात्तजातिसह- । शमाचरतस्ते नास्त्येव दोषः । अपि च येषामपि भक्ष्याभक्ष्य नियमोऽस्ति तेषामण्यासत्काले ग्राणानां संधारणमभक्ष्योपयोगेनापि तावद्विहितम् । किं पुनस्त्वादृशस्य । न चेदृशं किंचि दप्याहौराय मयोपनीतं यादृशेन चाण्डालाशनशङ्का समुत्पद्यते । फलानि तु ततोऽपि प्रतिगृ ह्यन्त एव । पानीयमपि चाण्डालभाण्डादपि भुवि पतितं पवित्रमेवेत्येवं जनः कथयति । तत्किमर्थमात्मानं क्षुधा पिपासया वा पातयसि । यन्न भक्षयस्यमूनि मुनिजनोचितानि वन- फलानि न पिवसि वा पानीयम्' इति । अहं तु तेन तस्याश्चाण्डालजात्यनुचितेन वचसा विवेकेन च विस्मितान्तरात्मा तथेति प्रतिपद्य शापनिनो घृणां परित्यज्य जीविततृष्णया क्षु. त्पिपासोपशमायाशनक्रियामङ्गीकृतवानस्मि । मौनं तु पुनर्नात्याक्षम् । एवमतिक्रामति च काले क्रमेण तरुणतामापत्रे मध्येकदा प्रभातायां च यामिन्याभुन्मी- - यस्या एवंविधा चित्तवृत्तिर्मनोवृत्तिर्यषां ते तथा तेषामुपनतेष्वानीतेष्वाहारेष्वनुपयोगोऽनाभोगो न संभवत्येव नास्त्येव । तद्यदि त्वं भवानेवंविध एतादृशः कोऽप्यनिर्वचनीयस्वरूपो भोज्याभोज्ययोर्भक्ष्याभक्ष्ययोर्विवेकः पृथगा- त्मता तं करोतीत्येवंशीलः पूर्वजातिस्मरोऽस्मदीय मास्माकीनमाहारं भोज्यं परिहरसि त्यजसि, तथापि तथात्वेऽपि तावद्भक्ष्याभक्ष्यविवेकरहितायां भोज्याभोज्य विवेचनावर्जितायां तिर्यग्जातौ वर्तमानस्य स्थितवतस्ते तवाभ- क्ष्यमभोज्यं किं किमिव । यद्यस्मात्कारणान्न भक्षयति नास्ति । येन च कारणेनोत्कृष्टतमां प्रकृष्टतरामुत्कृष्टतरां जातिं प्राप्यासाद्यात्मनैवेदृशं कर्म कृतं येन कर्मणा तिर्यग्योनौ पतितः । स त्वमपरमन्यतिंक विचारयसि किं विमर्शयसि । प्रथम मेवादावेवात्मा न विवेके तत्त्वातत्त्वविचारे स्थापितः । अधुना सांप्रतं स्वकर्मणोपात्ता प्राप्ता या जातिस्तस्याः सदृशमनुकूलमाचरत्तः कुर्वतस्ते तव नास्त्येव दोषः । अपि चेति युक्त्यन्तरे । येषामपि पु- रुपाणां भक्ष्याभक्ष्ययोर्भोज्याभोज्ययोर्नियमो विरतिरस्ति तेषामपि जनानामापत्काले विपत्समये प्राणानां संधारणं रक्षणमभोज्योपयोगेनाप्यभक्ष्यग्रहणेनापि यावद्विहितं तदा त्वादृशस्य भवत्सदृशस्य किं पुनर्भण्यते । ईदृशं किंचिदपि ते तवाहाराय भक्षणाय मया नोपनीतं नानीतम्, यादृशेन चाण्डालस्याशनशङ्का श्वपचभ- क्ष्यारेका समुत्पद्यते संजायते । फलानि तु ततो गृह्यन्त एवादीयन्त एव । पानीयमपि जलमपि चाण्डाल- भाण्डादपि श्वपचपात्रादपि भुवि पतितं भूक्षिप्तं पवित्रं पावनमेवमेवं जनः कथयति वक्ति । तदिति हेत्वर्थे । किमर्थं किंप्रयोजनं क्षुधया बुभुक्षया पिपासयोदन्यया वात्मानं स्वं पातयस्यात्मपातं करोषि | अमूनि मुनिज- नोचितानि पसय ग्यानि वनफलानि for-fir +