पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उत्तरभागः । लितलोचनोऽद्राक्षमस्मिन्कनकपञ्जरे स्थितमात्मानम् । चाण्डालदारिकामीदृशीं यादृशी देवेनापि दृष्दैव | सकलमेव तत्पक्कणममरपुरसदृशमालोक्य चापगतचाण्डालवसतिसंवेगो विस्मितान्तरात्मा किमेतदिति कुतूहलात्प्रष्टुकामो यावन्न परित्यजाम्येव मौनं तावदेषा मा - मादाय देवपादमूलमायाता | तत्केयम् । किमर्थमनया चाण्डालतात्मनः ख्यापिता किमर्थं वाहं बद्धः । बवा वा किमर्थमिहानीत इत्यत्र वस्तुन्यमपि देव इवानपगतकुतूहल एव' इति । राजा तु तच्छ्रुत्वा समुपजाताभ्यधिक कुतूलस्तदाहानाय पुरस्थितां प्रतीहारीमौदिदेश | नॅचिरादेव तयोपदिश्यमानमार्गा प्रविश्य सा पुरस्तादूर्ध्वस्थितैव राजानर्मंभिभवन्ती धान्ना प्रागल्भ्येन बभषे- 'भुवनभूषण, रोहिणीपते, तारारमण, कादम्बरीलोचनानन्द चन्द्र, सर्वस्त्वयास्य दुर्मतेरात्मनश्च पूर्वजन्मवृत्तान्तः श्रुत एव । अत्रापि जन्मनि यथायं निषि- द्धोऽपि पित्रा कामरागान्धः पितुराज्ञामुल्लङ्घ्य वधूसमीपं प्रस्थितस्तथाप्यनेन स्वयमेव कथि- तम् । तदहमस्य दुरात्मनो जननी श्रीस्तथा प्रस्थितमेनं दिव्येन चक्षुषा दृष्ट्वास्य पित्राहं समादिष्टास्मि । 'सर्व एव ह्यं विनयप्रवृत्तोऽनुतापाद्विना न निवर्तते । तदयं ते तनयः कदाचि- दस्यापि अपि तिर्यग्जातेरधस्तान्निपतति । तद्यावदिदं कर्म न पैरिसमाप्यते तावदेनं मर्त्यलोक भातायां यामिन्यां रजन्यामुन्मीलितलोचनो विकसित नयनोऽहमस्मिन्कनकपञ्जरे स्थितमात्मानमद्राक्षं व्यलो- कयम् | चाण्डालदारिकामीदृशीं यादृशी देवेनापि भवतैव दृष्टैवावलोकितैव निरीक्षितैव | सकलमेव समग्रमेव तत्पक्कणममरपुरसदृशं देवनगरतुल्यमालोक्य निरीक्ष्य चापगतो दूरीभूतश्चाण्डालेषु वसतिर्निवासस्तस्याः संवेगः संभ्रमो यस्य स विस्मितो विस्मयं प्राप्तोऽन्तरात्मा मनो यस्य सः । किमेतद्दृश्यमान मिति कुतूहलात्प्रष्टुकामः प्रश्नं क र्तुमना यावन्न परित्यजाम्येव न दूरीकरोम्येव मौनं तावदेषा मामादाय गृहीत्वा देवस्य पादमूलमायाता | तत्तस्मा- कारणात्केयम् । किमर्थं किंप्रयोजनमनयात्मनः खस्य चाण्डालता ख्यापिता कथितोक्ता । किमर्थं वाहं बद्धः संदा- नितः । वा वा बन्धनं कृत्वा वा किमर्थमिहानीत इत्यत्र वस्तुन्यहमपि देव इवानपगतं कुतूहलं यस्मात्स एवेति । राजा तु नृपोऽपि तच्छ्रुत्वा समुपजातमभ्यधिकं कुतूहलमाश्चर्य यस्य स तस्याश्चाण्डालदारिकाया आह्वाना- यामन्त्रणं कृत्वाहूतिकृते पुरःस्थितामस्थितां प्रतीहारीं द्वारपालिकामादिदेशाज्ञां दत्तवान् । नचिरादेव रतो- ककालेनैव तयोपदिश्यमानमार्गा कथ्यमानपथा सा प्रविश्य प्रवेशं कृत्वा पुरस्तादूर्ध्वस्थितैव धाम्ना तेजसा राजा- नमभिभवन्ती तिरस्कुर्वन्ती प्रागल्भ्म्येन वायैन वभाषेऽवोचत् । किं तदित्याह - भुवनेति । हे भुवनभूषण हे जगद्विभूषण हे विष्टपटङ्गार, हे रोहिणीपते हे रोहिणीनाथ हे चन्द्र, हे तारारमण हे तारकवि- • नोदक, हे कादम्बरीलोचनानन्द हे गन्धर्वकन्यकानयनप्रमोदक, हे रजनिकर हे चन्द्र कुमुदबान्धव, सर्वः समग्रस्त्वयास्य दुर्मते: पुण्डरीकस्यात्मनः स्वस्य च पूर्वजन्मवृत्तान्तः पूर्वभवोदन्तः श्रुत एवाक- र्णित एव । अत्रापि जन्मनि यथायं पित्रा जनकेन निषिद्धोऽपि प्रतिषिद्धोऽपि कामरागान्धः कन्दर्परागान्धः पितराज्ञां जनकादेशमुलातिक्रम्य वसमीपं पत्नीपार्श्व युवतीनिकटं प्रस्थितचलितः, तथाप्यनेन स्वयमेव