पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उत्तरभागः । ५९५ कास्या यदीयया बन्धपीडया पीडा । नाहमस्यास्तनयो न भ्राता न बन्धुः । अथ मौनमा- लम्ब्य तिष्टामि, तेत्रापि शाठ्यप्रकुपिता कदाचिंदतोऽप्यधिकामवस्थां प्रापयति भाम् । नृशं- सतमा हि जातिरियम् । अथवा वरमितोऽप्यधिकमुपजातं न पुनश्चाण्डालै: सह बागपि विमिश्रि॒िता । अपि च गृहीत मौनं निर्वेदात् कदाचिन्मुञ्चत्येव । वदंस्तु पुनर्न मोक्तव्य एवाह- मनया | अपिच यद्दिव्यलोकभ्रंशो यन्मयलोके जन्म यत्तिर्यग्जातौ पतनं यच्चाण्डालहस्ता- गमनं यच्चेदमेवंविधं पञ्जरबन्धदुःखं सर्व एवायमनियतेन्द्रियत्वस्यैव दोषः । तत्किमेकंया वाचा । 'सर्वेन्द्रियाण्येव नियमयामि' इति निश्चिय मौनग्रहणमकरवम् | आलप्यमानोऽप्या- तर्ज्यमानोऽप्याह्न्यमानोऽपि त्रुट्यमानोऽपि च बलान्न किंचिद॒व्यवदम् । केवलमुच्चश्रीका- रमेवामुच्चम् । उपनीतेऽपि च पानाशने तं दिवसमनशनेनैवात्यबाहयम् । अन्येयुश्चतिक्रा- मत्यशनकाले मे दूँयमाने हृदये च सा स्वपाणिनोपनीय नानाविधानि पक्कान्यपक्कानि च फलानि सुरभि शीतलं च पानीयमप्रतिपन्नतदुपैभोगं मामौरोपितलोचना स्निह्यन्तीवावोचत्- 'क्षुत्पिपासदितानां हि पशुपक्षिणां निर्विचारचित्तवृत्तीनामुपनतेष्वाहारेष्वनुपयोगो न संभ- - दर्शयति - साध्विति । साधु जल्पति शुभं वदतीत्येवं हेतोरनयाहं ग्राहितो ग्रहणं कारितः । अस्याश्चण्डालदारि- काया मदीयया बन्धपीडनया का पीडा । एतदेव विशेषतो दर्शयन्नाह – नेति । अहमस्यास्तनयः सुतो न, न भ्राता सहोदरः, न च बन्धुः स्वजनः । अथेति प्रकारान्तरे | यदि मौनमालम्ब्य तूष्णीं कृत्वा तिष्ठामि तत्रा- पि तत्कृतेऽपि शाट्येन प्रकुपिता रोषिता सती अतोप्यधिकां विशेषाधिकामवस्थां दशां कदाचिन्मां प्राप- यति नयति | हि यस्मात्कारणादियं नृशंसतमा क्रूरतमा जातिः । अथवेति पक्षान्तरे | इतोऽप्यस्मादयवि- कमुपजातं वरं शुभम् । तत्रार्थे हेतुमाह - न पुनरिति । चाण्डालैः सह वागपि विमिश्रिता प्रत्युत्तरप्रदानेन संसक्तीकृता । मौनावस्थायां गुणं प्रदर्शयन्नाह -अपि चेति । कदाचिदिति संभावनायाम् । निर्वेदात्खावमा नाद्गृहीतमौनं स्वीकृतावचनव्यापारं मां मुञ्चत्येव मोचनं विदधात्येव | वस्तु जल्पस्वहमनया चण्डालदारिकया न मोक्तव्य एव न व्यजनीय एव । अपि चेति युक्त्यन्तरे | यद्दिव्यलोकान्द्रंशः पातः, यन्मर्त्यलोके मनुष्य- लोके जन्मोत्पत्तिः, यत्तिर्यग्जातौ पक्षिजातौ पतनं पातः, यच्चाण्डालस्य श्वपचस्य हस्ते गमनं यानम्, यदेवंवि- धमेतादृशं पञ्जरवन्धदुःखम् । यत्तदोर्नित्याभिसंबन्धादाह — सर्वेति । स सर्वोऽयमनियतेन्द्रियत्वस्यैवा- नियन्त्रितेन्द्रियस्यैव दोषो दूषणम् | तत्किमेकया वाचा स्यात् । सर्वांण्येवेन्द्रियाणि करणानि नियमयामि नि- मन्त्रयामीति निश्चियेति निर्णयं कृत्वा मौनग्रहणमकरवम् | आलप्यमानोऽपि संभाष्यमाणोऽप्यातर्ज्यमानोऽपि तर्जनाक्रियमाणोऽप्याहन्यमानोऽपि ताड्यमानोऽपि बलाद्धठात्रुट्यमानोऽपि छिद्यमानोऽपि च न किंचिय- हमवदमब्रुवम् | केवलमुचैस्तारखरं चीत्कारं पूत्कृतिविशेषम मुञ्चम् | उपनीतेऽपि चानीतेऽपि च पानाशने ज Brita तं दिवसशेषं नेवाभोज वायवयं व्या अत्येति अन्य