सामग्री पर जाएँ

पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कादम्बरी । ५९४ दृष्ट्वा च तं तादृशं र्नरकवासिनोऽप्युद्वेगकरं समुत्पन्नघृणोऽन्तरात्मन्यकरवम्-'अपि नाम सा चाण्डालदारिका दूरत एव मामालोक्योत्पन्नकरुणा मोचयेन्न जातिसदृशमाचरिष्यति । भविष्यन्त्येवंविधानि मे पुण्यानि । न निमेषमप्यत्र पदं कुर्याम्' इत्येवं कृताशंस मेव मां नीत्वा स चण्डालस्तदा दुर्दर्शनाकारवेषायै दूरतः स्थितः प्रणम्य 'एष स मया प्राप्त ' इति तस्यै चण्डाल- दारिकायै दर्शितवान् | सा तु प्रहृष्टतरवदना 'शोभनं कृतम्' इति तमभिधाय तत्करात्स्व - कयुगेनादाय माम् ‘आः पुत्रक, प्राप्तोऽसि | सांप्रतं कापरं गम्यते । व्यपनयामि ते सर्व- मिदं कामचारित्वम्' इत्यभिदधानैव धावमानचण्डालबालकोपनी ते ऽघश्यानलोमशदुर्गन्धि- गोचर्मवत्रिकावन दृढवद्धदारुमयपानभोजनपात्रे मनागुद्घाटितद्वारे दारुपञ्जरे समं महा- श्वेतावलोकनमनोरथैराक्षिण्यार्गलितद्वारा सा मामवदत् । 'यथात्र निवृतेः संप्रतिष्ठि' इत्य- भिधाय तूष्णीमस्थात् | अहं तु तथा संरुद्धश्चेतस्यकरवम् - 'महासंकटे पतितोऽस्मि । यदि तावदावेदितात्मावस्थः शिरसा प्रणिपत्य मुक्तये विज्ञापयाम्येनां तदा य एव मे गुणो दोष- तामापद्य बन्धायोपजातः स एव संवर्धितो भवति । साधुजंल्पतीत्येवाहमनया माहितः | येपामेवभूता वालवस्थविराः पाकतरुणज्यायांसो यस्मिन्स तम् । अव्यवस्थितोऽनिश्चितो गम्यागम्याङ्ग- नाया: सेव्यासेव्यस्त्रिय उपभोगो यस्मिन्स तम् | अपुण्यकर्मणामश्रेयसकृत्याना मे कम द्वितीयमापणं हमहं पकणमपश्यमियन्वयस्तु पूर्वमुक्तः । 1 नरकवासिनोऽपि दुर्गतिस्थायिनोऽप्युद्वेगकरमरतिकरं तं तादृशमुक्तस्वरूपं दृष्ट्वा निरीक्ष्य च समुत्प- नघृण: संजातजुगुप्सोऽन्तरात्मनि चित्तेऽकरवमकल्पयम् । किं तदिलाह - अपीति | अपि नाम कोमलामन्त्रणे । सा चाण्डालदारिका म्लेच्छबालिका दूरत एव दविष्ठ एव मामालोक्योत्पन्न करुणा संजातकारुण्या मोचयेन्मुक्तिं कुर्याज्जातिसदृशं कुलतुल्यं नाचरिष्यति न करिष्यति । एवंविधानि मे मम पुण्यानि श्रेयांसि भविष्यन्ति | निमेषमप्यक्षिसन्दनमात्रमप्यत्र पदं स्थानं न कुर्यां न विदध्याम् । इत्येवंप्रकारेण कृता विहिताशंसा स्पृहा वाञ्छा येनैवंभूतमेव नीत्वा स चण्डालो दुर्दर्शन आकारो वेषश्च यस्याः सा तस्यै दूरतः स्थितः प्रणम्य नमस्कृत्य स एष मया प्राप्त इति तस्यै चण्डालदारिकायै दर्शि- तवान्दृग्गोचरीकारितवान् | सा तु चण्डालदारिका प्रहृष्टतरं प्रमुदिततरं वदनं मुखं यस्याः सा शोभनं शुभं कृतमिति तं भद्रमुखमभिधाय तत्करात्तत्पाणेस्तद्धस्तात्स्वकर युगेनात्महस्तयुगेन स्वीयपाणिद्वयेनादाय गृहीत्वा माम् । आः पुत्रक सुत, त्वं प्राप्तोऽसि । अतोऽस्मात्स्थानादिति गम्यम् | सांप्रतं क्वापरममे गम्यते गमनं क्रि- यते । ते तव सर्वं कामचारित्वं स्वेच्छाविहारित्वं व्यपनयामि दूरीकरोमि । इत्यभिदधानैवेति ब्रुवाणैव धावमा- नस्त्वरितगत्या गच्छमानो यश्चण्डालवालकस्तेनोपनीत आनीतेऽर्धमाश्यानं शुष्कं लोमशं रोमयुक्तं दुर्गन्धि विस्रगन्धि यगोचर्मं तस्य पत्रिका नत्री तयावनद्धे बद्धे । 'पूतिगन्धिस्तु दुर्गन्धो विसं स्यादामगन्धि यत्' इत्यमरः । दृढं बद्धानि दारुमयानि काष्टमयानि पानभोजनपात्राणि यस्मिन्मनागीषदुद्घाटितमुन्मुद्रितं द्वारे यस्मिन्नेतादृशे दारुपञ्जरे काष्टनिर्मितविहंगरक्षणे महाश्वेतावलोकनमनोरथैः महाश्वेतानिरीक्षण मनोरथैः सममा-