पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उत्तरभागः । ५९३ , १ कौलेयकमुक्तिसंचारणचतुरैश्चण्डालशिशुभिर्वृन्दशो दिशि दिशि मृगयां क्रीडद्भिरत ऐवा- वेष्यमानम्, इतस्ततो विस्रगन्धिधूमोद्गमानुमीयमानसान्द्रवंशवनान्त रितवेश्म सं निवेशम् । सर्वतः करङ्कप्रायवृतिवॉटम् अस्विप्रायरध्यावकरकूटम्, उत्कृत्तमांस मेदोवसासृ कर्दमप्राय- कुटीराजिरम्, आखेटप्रायाजीवम्, पिशितप्रायाशनम्, वसाप्रायस्नेहम्, कौशेयप्रायपरिधा- नम्, चर्मप्रायास्तरणम्, सारमेयप्रायपरिवारम्, धवलीप्रायवाहनम्, स्त्रीमद्यप्रायपुरुषार्थम्, असृक्त्रायदेवताबलिपूजम्, पशूपहारप्रायधर्मक्रियम्, आकारमिव सर्वनरकाणाम्, कारणमिव सर्वाकुशलानाम्, संनिवेश मित्र सर्वश्मशानानाम्, पत्तनमिव सर्वपापानाम् आयतनमिव सर्वयातनानाम्, स्मर्यमाणमपि भयंकरम्, श्रूयमाणमप्युद्वेगकरम्, दृश्यमानमपि पापजन- नम्, जन्मकर्मतो मलिनतरजनम्, जनतो निविँशतरलोकहृदयम्, लोकहृदयेभ्योऽपि निर्घृणतर सर्वसंव्यवहारर्समस्तपुरुषम् अविशेषाचारबालयुवस्थविरम्, अव्यवस्थितगम्या- गम्याङ्गनोपभोगम्, अपुण्यक कापणं पक्कणमपश्यम् । , नमभिवादनं तत्र कुशलैश्चतुरैः । कौलेयकानां शुनानां मुक्तौ जीवोपरिमोचने संचारण इतस्ततः परिभ्रमणे चतुरैरभिज्ञैः । ‘कौलेयकः सारमेयः कुक्कुरो मृगदंशकः' इत्यमरः । एतादृशैश्चण्डालशिशुभिः श्वपचदारकैः । वृन्दैश्च वृन्दैश्च वृन्दशः | दिशि दिशि मृगयामाखेटकं क्रीडद्भिः क्रीडां कुर्वद्भिः आवेष्टयमानमित्यनेन संवन्धः । पुनः प्रकारान्तरेण विशेषयन्नाह – इतस्तत इति । इतस्ततो यत्रतत्र विस्रगन्धिरामगन्धो यो धूमोद्गमो दहनकेतनस्तस्योद्गमेनोर्ध्वगमनेनानुमीयमानं सान्द्रं निविडं वंशवनं वेणुकाननं तेनान्तरितो व्यव- हितो वेश्मसंनिवेशो यस्य स तम् | करङ्कप्राया शरीरास्थिबहुला या वृतिरावेष्टकस्तस्यां वाटो निःसरण • मार्गो यस्मिन्स तथा | 'वाटो वृतौ च मार्गे च वाटी च गृहनिष्कुटे' इति विश्वः । अस्थीनि प्रायो वाहुल्येन यस्यामेवंविधा रथ्या मार्गस्तस्यामवकरकूटः संकरसमूहो यस्मिन् । 'संकरावकरौ तुल्यौ' इति हैमः | उत्कृत्त- मुत्कल्पितं यन्मांसं पललं मेदोऽस्थिकृवसा शुद्धमांसस्य स्नेहोऽसृग्रुधिरमेतेषां कर्दमः पङ्कः प्रायो बाहु- ल्येन यस्मिन्नेवंभूतं कुटीराणामजिरमङ्गणं यस्मिन्स तम् । 'अजिरं चत्वराङ्गणम्' इति हैमः | आखेटकप्रायं आजीवो जीवनं यस्मिन्स तम् । 'आजीवो जीवनं वार्ता जीविकावृत्तिचेतनम्' इति कोशः । पिशितं मांसं प्रायो बाहुल्येनाशनं भोजनं यस्मिन्स तथा तम् | वसा मांसस्नेहः सैव प्रायः स्नेहो यस्मिन्स तथा तम् । कौशेयं कृमिकोशोत्थं तदेव प्रायः परिधानमधोंऽशुकं यस्मिन्स तथा तम् । 'कौशेयं कृमिकोशोत्थं परिधानं त्वधोंऽशु. कम्' इति हैमः | चर्माजिनं प्रायो बाहुल्येनास्तरणं यस्मिन्स तम् । सारमेयाः कुकुरास्त एव प्रायः परिवारो यस्मिन्स तम् । धवली गौः सैच प्रायो वाहनं युग्यं यस्मिन्स तम् | स्त्रीमद्ये एव प्रायः पुरुषार्थः पुरुषप्रयत्न- साध्यः पदार्थो यस्मिन्स तम् । अग्रुधिरं तदेव प्रायो देवतानां बलिपूजा यस्मिन्स तम् | पशूनामुपहारो वलिः स एव धर्मक्रिया सुकृताचरणं यस्मिन्स तम् । सर्वनरकाणां सर्वदुर्गतानामाकारभिव स्वरूपमिव । सर्वेषामकु- शलानामश्रेयसां कारणमिवाकल्याणानां कारणमिव निदानमिव । सर्वेषां श्मशानानां पितृतर्पणानां संनिवेशमिव स्थानमिव सर्वेष प प नामधर्माणामंह पत्तनमि पुटभेदनमि । ससांया न नां तीव्रवेदनाना त्यन्त -