५८३ किसपि दिव्यलोकनिवासित्वम् । तद्येनैतावतः स्थानात्स्वदोषैरात्मा पातितस्तेन कथमधुना सर्वक्रियाविहीनेनास्यास्तिर्यग्जातेः ः समुद्धृतः स्यात् । कथं वा पूर्वजन्माहितस्नेहै: सह समा- गमसुखमनुभूतम् | अननुभवतञ्च तन्निष्प्रयोजनेनामुना जीवितेन किं मे परिरक्षितेन । पततु यंत्र तत्र कापि यातनाशरीरम् | सुखं तु नानुभवितव्यममुना दुःखैकभाजनेन । तत्परित्य- जाम्येन्म् । पूर्यतामस्मद्व्यसनदा नै कचिन्ता दुःस्थितस्य विधेर्मनोरथः' इत्येवं च जीवितपरि- त्यागचिन्तानिमीलितं मां समुच्छ्रासयन्निव विकासहासिना मुखेन सहसा प्रविश्य हारीतो- ऽभ्यधात् – 'भ्रातर्वैशम्पायन, दिष्ट्या वर्धसे । पितुस्ते भगवतः श्वेतकेतोः पाद्मूलात्कंपिज- लस्त्वामेवान्विण्यन्नायातः' इति LA उत्तरभागः । अहं तु तच्छ्रुत्वा तैत्क्षणेनोत्पन्नपक्ष इत्रोत्पत्य तत्समीपमेव प्राप्तुमभिवाञ्छनुद्रीवावलोकी ‘क्कासौँ’ इति तमप्राक्षम् । स त्वकथयत् – 'एष तातपादमूले बर्तते' इति । एवंवादिनं तु तमहं पुनरवदम् – 'यद्येवं ततः प्रापयतु मां तत्रैव भगवान् | उत्ताम्यति मे हृदयं तदर्शनाय इलेवं वदन्नेवामतो गमनागमनवेगोदयथास्थितजटाकलापम्, अनिलपथसंचरणचलितैकाञ्च- विशेषान्तरं किंचिदाधिक्यं दिव्यलोकनिवासित्वं स्वर्गलोक स्थायित्वम् । तत्तस्मात्कारणायेनैतावतः पूर्वोक्तस्थाना- त्स्वदोपैर्निजदूपणैरात्मा पातितस्तेन मया सर्वाः समग्राः क्रियाः स्नानादिकास्ताभिर्विहीनेन रहितेनाधुना सांप्रत- मिदानीमस्यास्तिर्यग्जातेः कथमात्मा समुद्धृत उद्धारं प्रापितः स्यादिति शेषः । पूर्वजन्मनि पूर्वभवे गतजन्मन्या- हितः स्थापितः स्नेहः प्रीतिर्येषु तैः सह समागमसुखं मेलापकसौख्यं कथमनुभूतं साक्षात्कृतम् | भवतीति शेषः । तत्सभागमसुखमननुभूतवतः साक्षात्कृतवतश्च मे मम निष्प्रयोजनेन निरर्थकेनामुना जीवितेन परिरक्षितेन किम्। न किंचिदित्यर्थः । यत्र तत्र कापीदं यातनाशरीरम् | यातना नरकवेदना' इति हैमः | नरकदेहम् | तीव्र वेदनाक्ष- ममित्यर्थः । पततु पतनं करोतु । सुखं तु नानुभवितव्यमनुना दुःखस्यानेन कष्टस्यैकभाजनेनैकपात्रेण शरीरम् । अत एतत् शरीरं परित्यजामि मुञ्चामि । अस्माकं व्यसनदानं कष्टप्रदानं तस्यैकाद्वितीया या चिन्ता तया दुःस्थि- तस्य दुःखितस्य विधेर्विधातुर्मनोरथोऽभिलाषः पूर्यतां परिपूर्णभूयताम् । इत्येवं चेतीयेवं प्रकारेण या जीवित- परित्यागचिन्ता तया निमीलितं मुद्रितं मां विकासेन हसतीत्येवंशीलेन विकासहासिना मुखेनाननेन समु च्छ्वासयन्निवाश्वासयन्निव | सहसातर्कितः प्रविश्य प्रवेशं कृत्वा हारितकोऽभ्यवादवोचत् । किं तदित्याह--- भ्रातरिति । हे भ्रातर्हे बन्धो वैशम्पायन, त्वं दिष्ट्या भाग्येन वर्ध॑से । ते तव भगवतो महाश्वेतकेतोः पितुः पादमूलाजनकचरणसमीपात्त्वा मेवान्विष्यन्गवेषयन्कपिजल आयात इति । अहं तच्छ्रुत्वाकर्ण्य तत्क्षणेन तत्कालेनोत्पन्नपक्ष इव संजातबाज इवोत्पत्योड्डीय तस्य कपिजलत्य समी- पमभ्यर्णं निकटं प्राप्तुमासादयितुमभिवाञ्छन्नभिलपनुनीवः सन्नवलोकत इत्येवंशील उद्रीवावलोकी क्वासाविति Fanfirst mifitä हारीमतता
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५८०
दिखावट