कादम्बरी । लितवनकुसुमपरिमलग्राहिणो वातुं प्रवृत्ताः प्रभातपिशुना वायवः । प्रत्यासन्नान्निविहारवेला' इत्यभिधान एव गोष्ठीं भड़त्वोद तिष्ठत् । अथोत्थिते भगवति जाबालो वीतरागापि निष्कौतुकापि मोक्षमार्गावस्थानापि समस्तैव सा तपस्थिपरिपत्कथारसाद्विस्मृत गुरूचितप्रतिपत्तिः शृण्वतीवोत्कण्ठिततया विस्मयोत्फुल्ल मुखी युगपदागलिंतशोकानन्दजन्मनयनसलिला हाकष्टशब्दानुबन्धिनी स्तम्भितेव चिरमिव स्थित्वा यथास्थानं जगाम | हारीतस्तु मां संनिहितेऽपि मुनिकुमारकजने निजकरेणैवोदिक्ष- प्यात्मपर्णशालां नीत्वा शनैः स्वशयनीयैकदेशे स्थापयित्वा प्राभातिकक्रियाकरणाय निर्ययौ | निर्गते च तस्मिंस्तेन सर्वकार्याक्षमेण तिर्यजातिपतनेन देहेन पीडितान्तरात्मा चिन्तां प्रा- विशम् । अत्र तावदनेकभवसुकृतसहस्राधिगम्यं मानुष्यमेव दुर्लभम् । तत्राप्यपरं सकलजा- तिविशिष्टं ब्राह्मण्यम् । ततोऽपि विशिष्टतरमासन्नामृतपदं मुनित्वम् । तस्यापि विशेषान्तरं । ५८२ प्रसरति विस्तरयति । एते च प्रत्यक्षगम्या निशीथिन्यां त्रियामिन्यां परिगतो मलो यस्मात्स परिमलोऽङ्गरागस्तेन शीतलाः शिशिराः । माघकाव्य उक्तमस्ति - 'नवपरिमलगन्धः केन शक्यो वरीतुम्' इत्यत्र परिमलशब्देनाङ्गराग एव विवक्षितः । अन्यथा गन्धशब्दस्य वैयर्थ्यं स्यात् । चलितानि कम्पितानि यानि वनानि तेषां कुसुमानां प रिमलो गन्धस्तं गृह्णन्तीत्येवंशीलास्ते तथा प्रभातस्य प्रत्यूषस्य पिशुनाः सूचका एवंविधा वायवः पवनाः समीरणा वातुं यातुं प्रवृत्ताः प्रवर्तितवन्तः । 'व्युष्टं विभात प्रत्यूषम्' इति हैमः । प्रत्यासन्ना समीपवर्तिनी निकटस्थायिनी | पदकदेशे पदसमुदायोपचारात् अग्निशब्देनाग्निहोत्रं तत्र विहारो विहरणम् | गमन मिति यावत् । तस्य वेलाव- सरः समयः प्रस्तावः। ‘वेला वारामवसरे' इति कोशः । इत्यभिदवान एवेतिब्रुवाण एव गोष्टीं श्रवणार्थ मिलित- जनसमूहात्मिकां भङ्क्त्वा दूरीकृत्योदतिष्ठदुत्थितो वभूव | 'समज्या परिषद्गोष्ठी सभासमितिसंसदः' इत्यमरः । अथोत्थिते भगवति जावालों वीतरागापि नीरागापि निष्कौतुकापि विगतकुतूहलापि गताश्चर्यापि मोक्षमार्ग निर्वाणमार्गेऽवस्थानमवस्थितिर्थस्या एवंविधाप्ये तादृशापि समस्तैव सर्वापि तपत्रिपरिषन्मुनिजनसभा कथाया वार्ताया रसाद्विस्मृता विस्मरणं प्राप्ता | गुरावुचिता योग्या प्रतिपत्तिः सेवा यस्याः सा तथा | शृण्वतीवाकर्ण- यन्तीवोत्कण्ठिततया रणरणकतया विस्मयेनाश्चर्येणोत्फुल्लं विकसितं मुखं यस्याः सा तथा | युगपदेकवारमा- गलितं पतितं शोकानन्दाभ्यां जन्म यस्यैवंभूतं नयनसलिलं यस्याः सा तथा । हा कष्टमिति यः शब्दस्तमनु - बन्धितुं शीलं यस्याः सा तथा । स्तम्भितेव कीलितेव चिरमिव स्थित्वा बहुकालमिव स्थित्वा यथास्थानं यथा- स्थलं जगामागमत् । हारीतस्तु मां मुनिकुमारकजने तापसशिशुजने संनिहितेऽपि रागीपवर्तिन्यपि सति निज- करेणैवात्मपाणिनैवोत्क्षिप्योत्पाट्यात्मपर्णशालां स्वकीयतृणकुटीं नीत्वा प्राप्य शनैः शनैर्मन्दं गन्दं शयनीयस्य शय्याया एकदेशेऽन्यतरप्रदेशे स्थापयित्वा संस्थाप्य प्राभातिक क्रियाकरणाय प्रत्यूषविधिविधानाय निर्ययौ निर- गात् । तस्मिन्हारीतमुनौ निर्गते च सति तेन सर्वाणि समग्राणि यानि कार्याणि कृत्यानि तेष्वक्ष मेणासमर्थेन तिर्य- ग्जातिपतनेन पक्षिजालन्तर्गतेन देहेन विग्रहेण शरीरेण पीडितोऽन्तरात्मा स्यैवंभूतोऽहं चिन्तामार्ति प्रा.
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५७९
दिखावट