उत्तरभागः । एतच्छ्रुत्वा पुनरवनितलनिवेशितशिराः प्रणम्य भगवन्तं व्यज्ञापयम्-'भगवन्, अहम- पुण्यवानस्यां तिर्यग्योनौ वर्तमानः स्वयं सर्वस्यैवाक्षमः | वागपि मे भगवतः प्रसादात्संप्रत्ये- वानने संभूता | भूतपूर्वं च ज्ञानमन्तरात्मनि । शरीरं पुनरायुः संवर्धककर्मयोग्यं भगवतः प्रसादादेन्यस्मि जन्मनि यदि भवेत् तत्केन प्रकारेणाक्षयं तन्मे महाकर्मसाध्यमायुर्भविष्य- तीत्येतदाज्ञापयतु भगवान्' इत्येवं विज्ञापितस्तु मया दिक्षु विक्षिप्य चक्षुर्भगवानाज्ञापितवान् 'एतदपि यथा तथा ज्ञास्यस्येव । तावदियं कथास्ताम् । रसाक्षेपादचेतितैवास्माभिः प्रभात - प्राया रजनी । प्रभाविरहादनुसृ॒ष्टर जतकुम्भाभ मिद्सँपरान्तावलम्विः वर्तते रजनिकरबिम्बम् । यथायथोद्गमविस्तारिणी जरत्तामरसपत्नारुणा पाण्डुच्छविरुल्लसति सीमन्तयन्ती तमः केशसं- घातमिव पूर्वस्याः ककुभोऽरुणामकरालोकततिः । इमाः सशेषतिमिरतयाम्बराकाण्ड कलुषं भास्वत्प्रभालोकमारव्धाः क्रमेण यथासूक्ष्मं तारका प्रवेष्टुम् । एष पम्पासरःशायिनां प्रबो- धाशंसी समुञ्चरति कोलाहल: ओबहारी विहंगमानाम् । एते च निशीथिनी परिमलशीतलाञ्च- एतच्छ्रुत्वा पुनरवनितलनिवेशितशिरा भगवन्तं प्रणम्य व्यज्ञापयं विज्ञप्तिं कृतवान्विज्ञप्तिं चकार अहम् । किं तदित्याह – भगवन्निति । हे भगवन्, अहं वपुण्यवान् । अस्यां तिर्यग्योनौ वर्तमानः स्वयमात्मना सर्वस्यैव कार्यस्याक्षमोऽसमर्थः । वागपि वाचापि मे मम भगवत्प्रसादात्संप्रत्येव सांप्रतमेवानने संभूता जाता | पूर्वं भूतं भूतपूर्व क्वचिदमान्यं तस्य परत्वमिति पूर्वशब्दस्य परप्रयोगः । एतादृशं ज्ञानमन्तरात्मनि संभूतम् । शरीरं पुनरा- युषः संवर्धकानि यानि कर्माणि कृत्यानि तेषु योग्यं समर्थ भगवतः प्रसादान्माहात्म्यादन्यस्मिञ्जन्मनि यदि भवे- तस्यात्तत्तस्मात्कारणान्मे मम महाकर्मभिः साध्यं महाकर्माणि साध्यानि यस्मिनिति वा आयुर्जीवितं केन प्रकारे णाक्षयं भविष्यतीत्येतदाज्ञापयतु कथयतु भगवान् । इत्येवं मया विज्ञापितो विज्ञप्तिविषयीकृतः | तु पुनरर्थे । दिक्षु . चक्षुर्विक्षिप्य प्रेर्य भगवानाज्ञापितवान् । किं तदित्याह-एतदिति । एतदपि त्वदुक्तमपि यथा वर्तते तथा त्वं ज्ञास्यस्येवाग्रे ज्ञातं भविष्यत्येव । इयं कथा तावदास्तां तिष्ठतु | रसाक्षेपावसाकर्षादस्माभिः प्रभातप्राया रजनी निशा चेतितैवाज्ञातैव । प्रभाविरहाच्यु तेर्विरहारकान्तेरभावादनुन्मृष्टोऽसंमार्जितो न स्फोटितो यो रज- तकुम्भो रौप्यघटस्तद्वदाभा श्रीर्यस्य तत्तथा । 'आभा राढा विभूषा श्रीः' इति हैमः । इदमपरान्तावलम्वि पश्चिमान्तावलम्वि पश्चिमाशावलम्बि रजनिक रविम्बं निशाकरप्रतिबिम्बं शशाङ्कमण्डलं वर्तते । यथायथमिति । यथा च यथा च यथायथम् | 'नित्यवीप्सयोः' इति द्विवम् | यथाप्रकार मुद्गमेनोदयेन विस्तारिणी विस्तरण- शीला जर पक्कं परिपक्कं यत्तामरसं पद्मम् । रक्तकमलमित्यर्थः । तस्य पत्राणि दलानि दर्भाणि तद्वदरुणा रक्ता आ ईषत्पाण्डुच्छवि: । 'रक्तोत्पलं तामरसम्' इति हैमः | पूर्वस्याः ककुभ ऐन्द्या दिशस्तमोलक्षण केशसंघातम- लकसमूहं सीमन्तयन्तीमिव सीमन्तं कुर्वन्तीमिवोल्लसत्युल्लासं प्राप्नोति । अरुणस्य रविसारथिनोऽप्रकराणामा- लोकः प्रकाशस्तस्य ततिः पतिः । श्रेणिरित्यर्थः । 'राजिलेखा ततिथि: ' इति हैमे | इमाः प्रत्यक्षदृश्याः सह शेषेण वर्तते तत्सशेषम स्वल्पमित्यर्थः । एतादृशं यत्तिमिरं ध्वान्तं तस्य भावस्तत्ता तयाम्बरे व्योम्न्याका-
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५७८
दिखावट