पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८० कादम्बरी aplin वादीत् - 'दुरात्मन्, ययैतावती दशामुपनीतोऽसि कथं तामेव तैरलहृदयतामनुबध्नासि | अद्यापि पेक्षावपि नोद्भिद्येते | तत्संचरणक्षमस्तु तावद्भव । ततो मां प्रक्ष्यसि' इत्येवमुक्ते भगवता समुपजातकुतूहलो हारीतः पप्रच्छ –'तात, सहानयं विस्मयो मे । कथय कथमस्य मुनिजातौ वर्तमानस्य तादृशी कामपरता जाता । यया जीवितमपि न संधारयितुं पारितम् | कथं च दिव्यलोकसंभूतस्य तथा स्वल्पमायुः संवृत्तम् । इत्येवं च पृष्टः सूनुना भगवा जावा- लिरमलामिः पापमलमिव मैक्षालयन्दशन दीधितिसलिलधाराभिः प्रत्यवादीत् –'स्पष्टमेवात्र कारणम् । वत्स, अयं हि कामरागमोहमयादल्पसारात्स्त्रीवीर्यादेव केवलादुत्पन्नः । श्रुतौ च पठ्यत ऐतद्याशाद्वै जायते ताहगेव भवतीति । लोकेऽपि च प्रायः कारणगुणभाञ्जयेव का र्याणि दृश्यन्ते । तथा चैत॑दायुर्वेदेऽपि श्रूयते । यः किलाल्पसारास्त्रीवीर्यादेव केवलाज- तुर्भवति स खल्वभावात्सारभूतस्य स्थैर्यहेतोः पुरुषवीर्यस्य यथासारं गर्ने वा विलयमाप- द्यते मृतो वा जायते जातो वा नदीर्घकालं जीवतीति । तदयमुत्पन्न एवेदृशो येनास्य ता- दृशी कामपरता जाता | मरणं च मदनवेगसंज्वरासहिष्णोस्तथोपनतम् | अधुनापि तादृश एवाल्पायुरयम् । झापावसानानन्तरकालं यंदस्याक्षयेणायुषा योगो भविष्यति' इति । ययैतावती दशामवस्थां त्वमुपनीतः प्रापितोऽसि कथं तामेव तरलहृदयतां चञ्चलचित्ततामनुवघ्नासि क रोष अद्यापि पक्षावपि बाजावपि नोद्भिद्येते नोद्द्रच्छतः । तत्तस्मात्कारणात्संचारणक्षमस्तु गमन- समर्थस्तु तावद्भव | ततस्तदनन्तरं मां प्रक्ष्यसि प्रश्नयिष्यति । इत्येवं भगवतोते कथिते समुपजातं कुतूहलमाश्चर्यं यस्यैवंभूतो हारीतः पप्रच्छ प्रश्नमकार्षात् । हे तात हे पितः, महानयं मे मम विस्मयो वर्तते । अस्य पुण्डरीकस्य मुनिजाती वर्तमानस्य तादृशी कामपरता जाता कंदर्पपरवशता जाता । तत्कथय कथम् । यया कामपरतया जीवितभपि संधारयितुं धर्तुं न पारितं न शक्तम् । कथं च दिव्यलोके संभूतस्य तथा स्वल्पमायुः स्तोकमायुः संवृत्तम् । इत्येवं पृष्टश्च सूनुना भगवाजावालिरमलाभिर्निर्मला भिर्दशनदीधितिस- लिलधारामी रदनकान्तिधाराभिः पापमलमित्र प्रक्षालयनुज्ज्वलीकुर्वन्प्रत्यवादीत्प्रत्यव्रवीत् । किं तदित्याह- स्पष्टमिति । अत्र कारणं निदानं स्पष्टमेव प्रकटमेव । हे वत्स हे पुत्र, अयं हि पुण्डरीकः कामरागो रता- भिलापो मोहो माँढ्यं ताभ्यां निष्पन्नस्तन्मयस्तस्मादल्पसारादल्पबलात्स्त्रीवीर्यादेव केवलात्पुरुषवीर्यासंभिन्ना- दुत्पन्नः प्रादुर्भूतः प्रकटीभूतः तत्पूर्वखण्डे व्याख्यातमेव नेहोच्यते । इत्येतच्छुतौ च वेदे च पठ्यते भण्यते । तदेवाह -- यादृशादिति । यादृशाद्विनिश्चयो जायते उत्पद्यते ताहगेव तादृश एव भवत्युत्पद्यते । लोकेऽपिं च प्रायो वाहुल्येन न सर्वत्र कारणं समवायिकारणमिह गृह्यते न निमित्तकारणं व्यभिचारात्तस्य गुणाः शुक्ला- दयस्तान्भजन्तीत्येवंशीलानि कार्याणि जन्यानि दृश्यन्तेऽवलोक्यन्ते । तथा चैतदायुर्वेदेऽपि वैद्यकशास्त्रेऽपि श्रूयत आकर्ण्यते । किलेल्याप्तवचने । योऽल्पसारात्त्री वीर्यादेव केवलाज्जन्तुः प्राणी संभवत्युत्पद्यते । स खल्विति