पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उत्तरभागः । ५७९ 9 मन्यत्तत्क्षणमेव मे' वैशम्पायनस्य स एव चन्द्रापीडस्योपरि स्नेहः, सैव कामपरवशता, स एव महाश्वेतायामनुरागः, सैव तदवाप्तिं प्रत्युत्सुकतेत्युपगतं सकलमेव | केवलमसंजातपक्ष- तया मे तस्मिन्समये पूर्वजन्मोपात्ता शरीरचेष्टा नासीत् । तथा चाविर्भूतसकलान्यजन्मवृ- त्तान्तः समुत्सुकान्तरात्मा किं मातापित्रोः किं तातस्य तारापीडस्य, किमम्बाया विलास- वत्याः, किं वयस्यस्य चन्द्रापीडस्य, उत प्रथमसुहृदः कपि जलस्य, आहोखिन् महाश्वेताया इति नाज्ञासिपमेवं कैस्य कस्य कथं वा स्मृतवानस्मीति । तथा चोत्सुकान्तरात्मा महीतलनिवेशित- शिराश्चिरमिव स्थित्वा भगवन्तं जाबालिं निजाविनयश्रवणलज्जया विलीयमान इवं विशनिव पातालतलं कथमपि शनैः शनैर्व्यज्ञपयम् – 'भगवन्, त्वत्प्रसादाविर्भूतज्ञानोऽस्मि संवृत्तः । स्मृताः खलु मया सर्व एव पूर्वबान्धवाः । मूढतायां च यथैव तेषां स्मरणं नासीत्तथैव विरह- पीडापि । अधुना पुनस्तान्स्मृत्वा स्फुटतीव मे हृदयम् । न च तान्स्मृत्वापि तथा यथा च - न्द्रापीडं यस्य मदुपरतिश्रवणमात्रकात्स्फुटितं हृदयम् | तत्तस्यापि जन्माख्यानेन प्रसादं करोतु भगवान् | येनायं तिर्यग्यो निवासोऽपि मे तेन सहैकत्र वसतो न पीडाकरः सं- जायते' इति । एवं च विज्ञापितो मया सासूयमिव मामवलोक्य भगवाजाबालिः सस्नेहको पगर्भं प्रत्य- 2 क्त्वान्यदपरं सर्वमेव तत्क्षणमेव तत्समयमेव वैशम्पायनस्योपनतं स एव चन्द्रापीडस्योपरि स्नेहश्चन्द्रापीडस्यो- परि प्रेम सैव पूर्वानुभूतेंव कामपरवशता मदनायत्तता कंदर्पपरवशता, स एव पूर्वप्रतिपादित एव प्रथम- प्रतिपादित एव महाश्वेतायामनुरागोऽनुरतिरनु पश्चात्प्रेम, सैव तस्या महाश्वेताया अवाप्ति प्राप्तिं प्रत्युत्सु- कतत्सुक्यमिति सकलमेव समग्रमेवोपगतं प्राप्तम् । असंजातपक्षतयाप्रादुर्भूतवाजतया मे मम तस्मिन्समये पूर्वजन्मोपात्ता शरीरचेष्टा चलनादिका नासीन्नाभवत् । तथा चाविर्भूतः प्रकटीभूतः प्रादुर्भूतः सकलः स मस्तोऽन्यजन्मवृत्तान्तो भवान्तरोदन्तो यस्यैवंभूतः समुत्सुकान्तरात्मोत्कण्ठितान्तरात्मा किं शुकनास- मनोरमयोर्मातापित्रोः किं तातस्य तारापीडस्य, किमम्बाया विलासवत्याः किं वयस्यस्य मित्रस्य चन्द्रा- पीडस्य उत प्रथमसुहृद आद्यमित्रस्य कपेिञ्जलस्य, आहोस्चिन्महाश्वेताया इत्येवं कस्य कस्यैतन्मध्यव- र्तिनः कथं वा केन प्रकारेण वा स्मृतवानस्मि स्मरणं कृतवानस्मीति नाज्ञासिषं नावबोधिषम् । तथा चो- त्सुकान्तरात्मा महीतले पृथ्वीतले निवेशितं शिरो येन स चिरमिव बहुकालमिव स्थिवास्थाय भगवन्तं जाबालिं निजस्य स्वस्याविनयस्य श्रवणमाकर्णनं तस्माद्या लज्जा त्रपा तया विलीयमान इव तामापाद्यमा. नमिव पातालतलं रसातलं विशन्निव प्रवेशं कुर्वन्निव कथं कथमपि महता कष्टेन शनैः शनैर्व्यज्ञपयं विज्ञ- प्तिमकार्षम् । हे भगवन्, त्वत्प्रसादात्त्वदनुग्रहादाविर्भूतं प्रकटीभूतं ज्ञानं यस्यैवंभूतोऽहं संवृत्तो निष्पन्नो- ऽस्मि | खलु निश्चयेन मया सर्व एव पूर्वबान्धवाः स्मृताः प्रथमस्वजनाः स्मृताः स्मरणविषयीकृताः । मूढ- मूर्ख मज्ञानतायां च यथैव तेषां स्मरणं नासीत्तथैव विरहपीडापि वियोगबाधापि नासीत् । अधुना I T