सामग्री पर जाएँ

पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५७८ कादम्बरी । पंरत्र, कोशस्पृहां तपसि, आज्ञां मौने, सर्वोपभोगरागं च वैराग्ये, तनयस्नेहं तरुषु, संक्र- मध्य यास्तपस्विजनोचिता: क्रिया: कुर्वन्गन्धर्वलोकोचितानहरहरूपचारान्कादम्बर्या कथ- मपि समुत्सृष्टलज्जया महाश्वेतया च क्रियमाणाननिच्छन्नविच्छेदात्सायं प्रातश्चानुभूतचन्द्रा- पीडदर्शनसुखो दुःखान्यगणयन्नरपतिः सपरिवारः समं देव्या शुकनासेन च तत्रैवातिष्ठत् । इत्येवं च कथयित्वा भगवाजाबालिर्जराभिभवविच्छायं स्मितं कृत्वा हारीतप्रमुखान्सर्वा - व सोपसावकानवादीत् - 'दृष्टमायुष्मद्भिरिदमन्तःकरणापहारिणः कथारसस्याक्षेपसा- मर्थ्यम् । यत्कथयितुं प्रवृत्तोऽस्मि तत्परित्यज्यैव कथारसात्कथयन्नतिदूरमतिक्रान्तोऽस्मि । तैद्यः स कामोपहतचेताः स्वयंकृतादेवाविनयाद्दिव्यलोकतः परिभ्रश्यन्मर्त्यलोके वैशम्पायन- नामा शुकनाससूनुरभवत् । स एवैष पुनः स्वयंकृतेनाविनयेन कोपितस्य पितुराक्रोशान्महा- श्वेताकृताञ्च सैत्याधिष्ठानादस्यां शुकजातौ पतितः' इत्येवं वदत्येव भगवति जावालौ बाल्येऽपि मे सुप्तप्रबुद्धस्येव पूर्वजन्मान्तरोपात्ताः समस्ता एवं विद्या जिह्वाग्रेऽभवन् । सकलासु च कलासु कौशलमुपजातम् । उपदेशाय मनुजस्येव चेयं विस्पष्टवर्णाभिधाना भारती च सं वृत्ता | विज्ञानं च सर्ववस्तुविषयं स्मरणं च संवृत्तम् । किं बहुना | मनुष्यशरीराहते सर्व- ३२ वाञ्छां तपसि व्रते, आज्ञामनुशासनं मौनेऽभाषणे, सर्वः समग्रः सकलो य उपभोगोऽङ्गनादिकस्तत्र रामं च वैराग्ये विरक्ततायाम्, तनयस्नेहं पुत्रप्रेम सूनुस्नेहं तरुषु वृक्षेषु, संक्रमव्य संक्रमणं कृत्वा यास्तपस्विजनोचि- तास्तपखिजनयोग्याः क्रिया अनुष्ठानविशेषाः कुर्वन्विदधन्गन्धर्व लोकस्योचितान्योग्यानहरहः प्रतिदिनं कथंक- थमपि महता कष्टेन समुत्सृष्टलजया त्यक्तत्रपया विगतलज्जया कादम्बर्या महाश्वेतया च क्रियमाणान्विधी- यमानानुपचारान्भक्तिप्रकारान निच्छन्नवाञ्छन्ननभिलपन्न विच्छेदादव्यवधानात्सायं प्रातश्चानुभूतचन्द्रापीडद- र्शनसुखं येनैवंभूतो नरपतिस्तारापीडो दुःखान्यगणयन्नजानन्सपरिवारः सपरिजनः सपरिस्कन्दः समं देव्या विलासवत्या शुकनासेन मन्त्रिणा च तत्र तस्मिन्स्यले स्थानेऽतिष्ठत् । इत्येवं च कथयित्वाख्याय भगवाजावालिर्जराया अभिभवेन विखसापराभवेन विच्छायं वैलक्ष्यं स्मितं हास्यं कृत्वा सर्वानेव तापसाञ्श्राव कान्हारीतकप्रमुखानवादीदव्रवीत् | आयुष्मद्भिरिदमन्तःकरणं मनोऽपहरती- त्येवंशीलः स तथा तस्य कथायाः प्रबन्धस्य रसस्तस्याक्षेप आकर्षस्तस्य सामर्थ्य चलं दृष्टम् । यदिति हेत्वर्थे । कथयितुं वक्तुं प्रवृत्तो वक्तुमुद्युक्तोऽस्मि । तत्परित्यज्यैव विहायैव कथारसात्कथयन्वन्नतिदूरमतिद- विष्ठमतिक्रान्तोऽतिवाहितोऽस्मि । तत्तस्मात्कारणाद्यः कामेन कंदर्पणोपहतं पीडितं चेतो यस्य सः स्वयंकृताः देव सौवाचीर्णादेवाविनयात्प्रातिकूल्याद्दिव्यलोकतः सुरसद्मतः परिभ्रश्यन्त्रिपतन्मर्त्यलोके मनुष्यलोके वैशम्पाय- ननामा शुकनाससूनुरभवत् । स एवैष वैशम्पायनः स्वयंकृतेनात्मना विहितेनाविनयेन कोपितरय रोषितस्य पितुर्जनकस्या कोशादाक्षेपात्कठिनवचनान्महाश्वेता गन्धर्वपुत्री तथा कृताद्विहिताच सत्यं सूनृतमेवाधिष्ठान. fraref. TT TIT a t