पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कादम्बरी | लोत्तरीयम्, तरुत्वचा दृढाबद्धपरिकरम्, अर्धत्रुटितयज्ञोपवीतसनाथास्थिशेषोरस्कम्, निःशे- पसुरपथावतरणश्रमोच्छ्रसितशरीरम्, समीरणापेहतमपि मरुत्पथोत्पतनखेदसंभृतम्, उद- कप्रवेशान्निस्यन्दमानस्वेदमाननेन, मैदवलोकनदुःखोद्गतं च बाष्पजललवविसरमीक्षणाभ्यां युगप्रदुत्सृजन्तम्, मुमुक्षुमपि मत्स्नेहनाभुक्तम्, वीतरागमपि मत्प्रियहितरतम्, निःसङ्गमपि मत्समागमोत्सुकम्, निःस्पृहमपि मदर्थसंपादनपर्याकुलम्, निर्मममप्युपारूढनेहम्, निरहं- कारमध्यहमेवायमिति मां मन्यमानम्, समुज्झितक्लेशमपि मदर्थे किश्यन्तम्, समलोष्टकाच- नतासुँखितमपि मद्दुःखदुखितम् कृतज्ञमकृतज्ञः, स्नेहलप्रकृति रूक्षचेताः, सुकृतिनमपुण्य- वान्, अनुगतं वामस्वभावः, भावार्द्रहृदयमेकान्तनिष्ठुरः, मित्रं वैरी, वचनकरमनाश्रवः, महात्मानं दुरात्मा, कपिञ्जलमहमद्राक्षम् । दृष्ट्वा च निर्भरगलितनयनपयास्तादृशोऽपि कृता- भ्युद्गमनप्रयत्नः पूत्कृत्य तमवदम् – 'सखे कपिञ्जल एवं जन्मद्वयान्तरितदर्शनमपि त्वां , .9 १ ग्रान्तो यस्यैवंभूतमुत्तरीयं संव्यानं यस्य स तम् । 'प्रच्छादनं प्रावरणं संव्यानं चोत्तरीयकम्' इति हैमः । तरूणां वृक्षाणां त्वचा कृत्वा दृढ आबद्धः परिकरो येन स तम् । 'भवेत्परिकरो व्राते पर्यकपरिवारयोः । प्र गाढगात्रिकावन्धे विवेकारम्भयोरपि' इति विश्वः । अर्धत्रुटितं यद्यज्ञोपवीतं यज्ञसूत्रं तेन सनाथं सहितम- स्थिशेप की कसावशेषमुरो यस्य स तम् । निःशेषं समयं यत्सुरपयं तस्मादवतरणं तस्माद्यः श्रमः खेदस्तेनो- च्वसितं शरीरं यस्य तम् । 'नमोऽन्तरिक्षं गगनमनन्तं सुरवर्त्म खम्' इत्यमरः । समीरणेन वायुनापहृतमपि पीडितमपि मरुत्पथे यदुत्पतनं तस्माद्यः खेदस्तेन संभृतं निचितम् । जलप्रवेशाद्व्योमगङ्गाजलान्तर्गमनादा- ननेन मुखेन निस्यन्दमानः क्षरत्स्वेदो धर्मो यस्य स तम् । किं कुर्वन्तम् । वाष्पजललवविसरं नेत्रजलकणस- गृहमीक्षणाभ्यां लोचनाभ्यामुत्सृजन्तं त्यजन्तम् । कीदृशं जललवविसरम् । ममावलोकनं तस्माद्यदुःखं त- स्मादुद्गतं प्रादुर्भूतं प्रकटीभूतम् | मोक्तुमिच्छुर्मुमुक्षुरेवंभूतमपि मत्स्नेहेन मत्प्रीत्यामुक्तमव्यक्तमखण्डितम् । वीतो गतो रागोऽनुरागो यस्मादेतादृशमपि मत्प्रिय इष्टे रतमासक्तम् । निर्गतः सङ्गोऽन्यजनसंपर्कः परजनसंयोगो यस्य स तमेतादृशमपि मम समागमो मेलापस्तत्र तस्मिन्नुत्सुकमुत्कण्ठितम् । निर्गता स्पृहा वाञ्छा यस्मादेवंभूतमपि ममार्थो मदर्थस्तस्य संपादनाय निष्पादनकरणाय परि सामस्त्येनाकुलं व्याकुलम् | निर्मममपि निर्गतममत्व- मपि ममत्वभावो नास्ति । मयि विषय उपारूढः स्थापितः स्नेहः प्रेमा येन स तम् । निर्गतोऽहंकारो गर्यो यस्मादेतादृ- शम यह मेवायं कपिजल इति मन्यमानं ज्ञायमानम् । समुज्झितस्व्यक्तः क्लेशो येनैवंभूतमपि मदर्थे मत्कृते क्लि- श्यन्तं क्लेशं प्राप्नुवन्तम् । समे सदृशे तुल्ये लोष्टकाञ्चने यस्य स समलोष्टकाञ्चनस्तस्य भावरतत्ता तथा सुखितं सं- जातसौख्य मेवंविधमेतादृशमपि मम दुःखेन दुःखितं संजातदुःखम् । कृतं जानातीति कृतज्ञस्तं कृतज्ञमकृतज्ञः । स्नेहला प्रकृतिः स्वभावो यस्य स तं रूक्षं स्नेहवर्जितं प्रेमरहितं चेतो यस्य स तथा । सुकृतिनं सुकृतवन्तं पुण्यवन्तं न विद्यते पुण्यं स्य स पुण्यवान अनगतमनकलं वासः प्रतिको वः स्वभाव यस्य सः ।