सामग्री पर जाएँ

पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कादम्बरी | लोचनें ततो यास्यन्ति' इत्याज्ञानन्तरं च मेघनादेन प्रवेशितान्दूरत एव समं बाष्पपातेन पञ्चाङ्गालिङ्गितमहीतळांश्चन्द्रापीडचरणवन्दनसद्भावनि हितोत्पक्ष्मनिभृतदृष्टींस्ताननन्यदृष्टि- चिरमिवालोक्य कादम्बरी स्वयमेवाभापत – 'भद्रमुखाः, परित्यज्यतामयं क्रमागतस्नेहसद्भा- वसुलभः शोकावेगः । यॆत्खत्वनालोचितावधि दुःखावसानमेव दुःखं तन्मरणभीरोर्भवतु नाम शोकावेगाय | यत्पुन: सुखोदर्के तत्पुरःस्थितया सुखप्रत्याशयैवान्तरितं नापतति हृदये । तदेष वृत्तान्त एवंविधो येन न केवलमन्त्र निरवकाशता शोकस्य प्रत्युत सुदूरभिन्नवृत्तेर्विस्मयस्याव- सरः । किमत्र परिबोधनेन । अन्यत्रादृष्टपूर्वो मनुष्येपु प्रत्यक्षीकृत एवायं वृत्तान्तः । भवद्भिरपि दृष्टं च पुरेवाक्षततनोर्देवस्य वदनम् | संभाषणापि या देवेन विना न संभवति सापि संभा- वितैव । तद्गम्यतामधुना वार्तोत्सुकमतर्देवस्य पादमूलम् । न चायं प्रत्यक्षदृष्टोऽप्युपरतशरीरावि- नाशवृत्तान्तः प्रकाशनीय: । दृष्टोऽस्माभिरच्छोदसरसि तिष्ठत्येतदेवावेदनीयम् । यतः कार- णादुपरतिः खल्ववश्यंभाविनी प्राणिनां कैथंचित्प्रत्ययमुत्पादयति । शरीरविनाशः पुनः प्राणै- विनाकृतानां दृश्यमानोऽप्यश्रद्धेय एव । तदस्यावेदनेन सुदूरस्थितमपि गुरुजनं मरणसंशये कृतार्थीकृत्य ततस्तदनन्तरं यास्यन्ति गमिष्यन्तीत्याज्ञा निर्देशस्तदनन्तरं च मेघनादेन प्रवेशितान्दूरत एव दविष्ठादेव वाष्पपातेनाश्रुपातेन समं द्वे जानुनी, द्वौ करौ, उत्तमाङ्गं चेति पञ्चाङ्गैरालिङ्गितमाष्टं महीतलं भूमितलं यैस्ते तथा तान् | चन्द्रापीडस चरणयोः पादयोर्वन्दनं नमस्करणं तस्य सद्भावेऽस्तित्वे निहिताः स्थापिता उदूर्ध्वं पक्षम नेत्ररोम यासामेवंविधा निभृता निश्चला दृष्टयो दृशो यैस्ते तथा तान् | न विद्यतेऽन्य- स्मिन्दृष्टिर्यस्याः सैवंभूता कादम्बरी चिरमिव चिरसदृशमालोक्य निरीक्ष्य स्वयमेवात्मनैवाभाषतावोचत । किं तदित्याह - भद्रेति । भो भद्रमुखाः शुभाननाः, क्रमागतः परम्परायातो यः स्नेहसद्भावः प्रेमसत्ता तेन सुलभः सुप्रापोऽयं शोकावेगः शुम्रयः परित्यज्यतां परिमुच्यताम् । अनालोचितोऽविमृष्टोऽवधिर्मर्यादा य तत्तथा दुःखमेवावसाने प्रान्ते यस्यैवं तद्दुःखमेव मरणभीरो: कातरस्य | खल्विति निश्चयेन । शोकावेगाय भवतु । यत्पुनः सुखः सुखकृदुदर्क आयतिजन्यं फलं यस्यैवंभूतं दुःखं पुरः स्थितया वर्तमानया सुखप्रत्याश- यैव सौख्यलिप्सयैवान्तरितं व्यवहितं हृदये चित्ते नापतति नागच्छति । 'आयतिस्तूत्तरः काल उदर्कस्तद्भवं फलम्' इति हैमः | तत्तस्माद्धेतोरेष वृत्तान्त उदन्त एवंविधो येन कारणेन केवलमत्र शोकस्य शुचो निरव- काशता निःप्रवेशता प्रत्युत सुदूरं भिन्ना वृत्तिर्वर्तनं यस्यैवंभूतस्य विस्मयस्याश्चर्यस्यावसरः प्रस्तावः । अत्रा- स्मिन्विषये परिवोधनेन ज्ञापनेन किम् । न किमपीत्यर्थः । एतदेव विशिनष्टि - अन्यत्र मनुष्येष्वदृष्टपूर्वो- ऽनवलोकितपूर्वोऽयं वृत्तान्तो भवद्भिरपि युष्माभिरपि प्रत्यक्षीकृत एव । साक्षात्कृत एवेति भावः | अक्षत- तनोरखण्डित शरीरस्य देवस्य चन्द्रापीडस्य वदनं पुरेव दृष्टमवलोकितम् । संभाषणाप्यन्योन्यालापोऽपि या देवेन विना न संभवति नोपपद्यते सापि संभाषणापि संभावितैव संभावनाविषयीकृतैव । तदिति हेत्वर्थे । तत्तस्मात्कारणाद्वार्तायां प्रवृत्तौ उत्सुकोत्कण्ठिता मतिर्बुद्धिर्यस्यैवं विधस्य देवस्य तारापीडस्य पादमूलं चरणस-