पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५५३ उत्तरभागः । कृतवानेव देवः । किमद्य जातं येन देवस्य पादारविन्दवन्दनाप्रसादेनासं विभज्य विस्सृज्यामहे | त एव वयं पादलग्नाश्चरणरेणवः | यद्विज्ञाप्य देवीं देवस्य युवराजस्य पादप्रणामेनास्माकं स- फलयतु भवानागमनपरिश्रमम् । अन्यथा भूमिमेतावतीमागत्य संभवे सत्यप्रत्यक्षीकृतयुवरा- जशरीरा गताः सन्तः किं देवदेवेन तारापीडेन वक्तव्या वयम् । किं वास्माभिर्देवो विज्ञाप- यितव्यः' इत्यावेदिते 'देवी प्रमाणम्' इति विज्ञाप्य पुनस्तूष्णीं स्थितवति मेघनादे तत्कालं समुत्प्रेक्षितानाश्वास्य श्वशुरकुलवैक्कुव्याद्विलीयमानेव शुचान्तः संचितं बाष्पमाकुलिततरलतार- काभ्यामापिबन्ती लोचनाभ्यामुद्र दिकयावगृह्यमाणकण्ठी कथंकथमपि चिरात्कादम्बरी प्रत्यु- वाच – 'स्थान एव हि तैरगमनमङ्गीकृतम् | अनवलोक्य देवमेवमेव याताः सन्तः कि- च्यन्ताम् | अपि च वृत्तान्त एवायमेवंविधो लोकातीतो यत्नावलोकनेनापि न संप्रत्ययः स- मुत्पद्यते । किं पुनरनालोकनेनापि | कैतवमालको पदर्शितप्रेमपल्लवा वल्लभतमजीविता वय- मपि यावत्पश्यामस्तं तावदनपेक्षितप्राणवृत्तयः स्नेह सैद्भावनया सद्वृत्त्या न पश्यन्तीयैघटमा- नकमिदम् । तदपरिलम्बितं प्रवेश्यताम् । पश्यन्तु देवम् । सँफलयित्वागमनपरिश्रमेण सार्धं - किं जातं किं जज्ञे येन देवस्य चन्द्रापीढस्य पादारविन्दस्य चरणकमलस्य वन्दना नमस्कृतिः सैव प्रसाद - स्तेनासं विभज्यासंविभागीकृत्य विसृज्यामहे | ते तव वयं पादलग्नाश्चरणरेणवः पादधूलयः । यद्विज्ञाप्य विज्ञप्ति कृत्वा देवीं कादम्बरीं देवस्य युवराजस्य पादप्रणामेनास्माकमागमनपरिश्रमं भवान्मेघनादः सफलयतु सफलीकरोतु । अन्यथोक्तवैपरीय एतावतीं भूमिमागत्य संभवे सति दर्शनयोग्यतायां सत्यामप्रलक्षीकृतं युवराजशरीरं यैस्तेऽप्रत्यक्षीकृतयुवराजशरीरास्ते च ते गताश्चेति कर्मधारयः । एवंविधा गताः सन्तो वयं देवदेवेन तारापीडेन किं वक्तव्याः किं कथनीयाः । अस्माभिर्देवस्तारापीडः किं विज्ञापयितव्यः किं वा निवेदयितव्य इत्यावेदिते ज्ञापिते देवी प्रमाणं यदादिशति देवी तत्कर्तव्यमिति विज्ञाप्य निवेद्य तूष्णीं स्थि- तवति मौनं कृतवति मेघनादे तत्कालं समुत्प्रेक्षितं वितर्कितमनाश्वास्यमाश्वासनावर्जितं श्वशुरकुलस्य स्व• पतिवंशस्य वैक्लव्यं विह्वलता यया सा तथा । झुचा शोकेन विलीयमानेव विलयं प्राप्यमाणेवान्तः संचितं मध्ये संघातीकृतं बाष्पमा कुलिते व्याकुलीभूते तरले चञ्चले तारके कनीनिके ययोरेवंभूताभ्यां लोचनाभ्यां नेत्राभ्यामापिवन्ती पानं कुर्वन्ती उत्प्राबल्येन गदिकया गद्दस्वरेणावगृह्यमाणो निरुध्यमानः कण्ठो यस्याः सा तथा । कथंकथमपि महता कष्टेन चिराद्वहुकालेन कादम्बरी प्रत्युवाच प्रत्यब्रवीत् | हि निश्चितम् । तैर्ले- खहारकैरगमनमयानमङ्गीकृतं स्वीकृतं तत्स्थान एव युक्तमेव | देवं चन्द्रापीडमनवलोक्या निरीक्ष्यैवमेव यथा गतं तथैव याताः पश्चाद्वलिताः सन्ततत्र तैः किमुच्यतां किं कथ्यताम् | अपि चेति युक्त्यन्तरे | अयमेवंविधो वृत्तान्त उदन्तो लोकातीतोऽनिर्वचनस्त्ररूपो यत्र यस्मिन्वृत्तान्तेऽवलोकनेनापि निरीक्षणेनापि न संप्रत्ययो न विश्वासः समुत्पद्यते संजायते । अनालोकनेनाप्यनिरीक्षणेनापि किं पुनर्भण्यते । सुतरामविश्वासो भवत्येवेति -