कादम्बरी । ३ 1 नाभिनवपदवीकेषु पुनरपि पार्थिवलोकेन प्रवर्तितेषु प्राञ्जलवर्त्मसु जम्बालविगमात्सर्वतस्तु- रगखुरसहोसु भूमिष्वेकदा चन्द्रापीडचरणमूलोपविष्टां कादम्बरीमुपसृत्य मेघनादो व्यजिज्ञ- पत्————'देवो युवराजश्चिरयतीत्युत्ताम्यता हृदयेन देवेन तारापीडेन देव्या विलासवत्यार्य- शुकनासेन च वार्ताहराः प्रहिताः । ते च देव्या एव शोकशल्यघटनां परिहरद्धियथावृत्तं सर्वमाख्यायाम्माभिरभिहिताः भवतां हस्ते देवेन चन्द्रापीडेन न किंचित्प्रतिसंदेष्टव्यम् । नापि देव्या कादम्वर्या । तद्कृतविलम्बा एव गत्वैवमखिलवृत्तान्तं लोकार्तिहरायावनितल- पँतये देवदेवाय तारापीडायावेदयत्' इत्येवमभिहितास्तु तेऽस्मान्मन्युनिर्भराः प्रत्यवदन--- 'यथा भवद्भिः कथितं तत्तथा । तिष्ठतु तावत्क्रमागतस्नेहो भक्तिरनुवृत्तिर्वा । कार्यगौरवकृतं कुतूहलमेव देवावलोकनं प्रति बलात्प्रेरैयत्यस्मान् । यदि भक्तामपि वार्तामात्रकोपलभ्य एवायमर्थः, ततो युज्यतेऽस्माकं भवद्भ्यः समुगलभ्य प्रतिगमनम् । अथ नयनविषयगामी तैदा वयमपि नेदृशा ऍवापुण्यकर्माणो ये न पश्यन्ति देवम् । अस्माभिरपि चिरतरं चरण- परिचर्यया देवस्य पवित्रित एवात्मा | अस्माकमपि सर्वदा दर्शनगोचरावस्थानेन प्रसाद · ५५२ ऽशुष्कः पङ्ककर्दमस्तेनोद्भिद्यमाना प्रादुर्भूयमानाभिनवा प्रत्यग्रा पदवी मार्गो येषु तानि तेषु । पुनरपि पार्थिव लोकेन राजलोकेन प्रवर्तितेषु क्षुण्णेपु प्राञ्जलवर्त्मसु सुकुमार मार्गेषु सत्सु | जम्वाल विगमात्कर्दमापगमात्सर्वतो- ऽभितस्तुरगानामश्वानां खुराःशफास्तान्सहन्ते क्षमन्ते इति तुरग खुरसहा तास्वेवंविधासु भूमिषु वसुधास्त्रेकदैक- स्मिन्समये चन्द्रापीडस्य चरणयोर्मूलं समीपं तत्रोपविष्टां स्थितां कादम्बरीमुपसृत्य समीपमागत्य मेघनादो व्यजि. ज्ञपज्ज्ञापयामास । किं तदित्याह – देवेति । देवो युवराजश्चन्द्रापीडश्चिरयति विलम्बयतीत्युत्ताम्यतोत्प्रावल्येन खेदं कुर्वता हृदयेन चेतसा देवेन तारापीडेन देव्या विलासवत्यार्यशुकनासेन च वार्ताहरा लेखहारकाः प्रहिताः ग्रेषिताः । ते च चार्ताहरा देव्याः शोक एव शल्यं शरीरान्तर्गतलोहखण्डस्तस्य घटनां रचनां परिहरद्भिर्वर्जयद्भिर स्माभिर्यथावृत्तं यथाभूतं सर्वं समग्रमाख्याय कथयित्वाभिहिताः कथिताः । भवतां युष्माकं हस्ते देवेन चन्द्रा- पीडेन न किंचित्प्रतिसंदेष्टव्यं न प्रतिकथनीयम् । नापि देव्या कादम्बर्या | तत्तस्मात्कारणादकृतो विलम्बः काल- क्षेपो यैरेवंविधा एव गत्वा गमनं कृत्वैवाखिलं समग्रं वृत्तान्त मुदन्तं लोकानां जनानामार्तिः पीडा तस्या हराया- चनितलपतये भूतलखा मिने देवदेवाय राजाधिराजाय तारापीडायावेदयत निवेदयत । इत्येवमभिहिताः कथि- तास्तु तेऽस्मान्मन्योः क्रोधस्य निर्भरो येष्वेतादृशाः प्रत्यवदन्प्रत्यूचुः । किं तदित्याशयेनाह - यथेति । यथा येन प्रकारेण भवद्भिःकथितमुक्तं तत्तथा तेन प्रकारेणास्तु | क्रमागतःपरम्परायातः स्नेहःप्रेम, भक्तिराराध्यत्वेन ज्ञानम्, अनुवृत्तिरनुवर्तनं वा तिष्ठत्वाताम्। परं कार्यस्य कृतस्य गौरवं गुरुत्वं तेन कृतं विहितं कुतूहलमेव कौतुकमेव देवस्य चन्द्रापीड स्यावलोकनं वीक्षणं प्रत्यस्मान्बलाद्धठात्प्रेरयति नोदयति । यदि भवतामपि केवलं वार्ता वार्तामात्रकं
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५४९
दिखावट