पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उत्तरभागः । ५५१ म्बया च मदिरया गाढंगाढं पुनरालिङ्ग्य शिरस्युपाधाय च वक्तव्यावयोर्वचनात् 'वत्से, कालमेतावन्तं मनस्येव नैतदावयोरासीद्यथा जामातृसहिता वत्सा द्रष्टव्येति । तदय मेवावयोः परमानन्दो येद्वत्सया स्वयं जामाता वृतः । तत्राप्यपरं भगवतो लोकपालस्य चन्द्रमसो- ऽवतारः । तैत्कल्याणैः शापावसाने जामात्रा सहैवानन्दबाष्पॅनिर्भराननारविन्दं ते द्रक्ष्याव:' इत्यावेदिते निर्वृत्तेनान्तरात्मना दैवतवदुपचरन्ती तञ्चन्द्रा पीडशरीरमतिष्ठत् । अथापगतवति जलदसमये घननिरोधोइँन्धादिवोन्मुक्ते जीवलोके प्रसरन्तीष्विवाशासु, फैलभारावनम्रकलमवन पिजरासु ग्रामसीमासु, काशकुसुमधवलास्वरण्यस्थलीषु, सेव्यतामु- पगतेषु प्रासादतलेषु कह्लारहारिषु पलवलेषु, कुमुदामोदशीतलासु यामवतीपु, शेफालिकाप- रिमलग्राहिषु निशावसानमातरिश्वसु, चन्द्रप्रभाभिरामेषु प्रदोषेषु, उद्दामफुल्लेन्दीवररजो- वाससुरभिषु वीसरेषु, सॅलिलापसरणक्रमतरङ्ग्यमाणासु सुकुमारतीर सैकतरेखासु सुखोत्तार- तामापन्नाखापगासु, पङ्कपरिहरणशुष्केष्वप्रहरूढैतृणोलपच्छन्त्रेषु मन्दाश्यानकर्दमोद्भिद्यमा- गाढमिति | गाढंगाढं पुनः पुनरालियोपगूहनं कृत्वा शिरस्युत्तमाङ्ग उपाघ्राय चुम्व्य चावयोर्वचनादस्मद्भा- पिताद्वक्तव्या भाषितव्या । हे वत्से, एतावन्तं कालं मनस्येव नैतदावयोरासीद्यथा जामातृसहिता दुहितुः पतियुक्ता वत्सा पुत्री द्रष्टव्या विलोक्येति । तत्तस्मात्कारणादय मेवाचयोः परम उत्कृष्ट आनन्दो यद्वत्स- या पुत्र्या स्वयमेव जामाता वृतोऽङ्गीकृतः । तत्रापि वरणेऽप्यपरमन्यद्भगवतो लोकपालस्य चन्द्रमसोऽव- तारः । तत्कल्याणैर्मङ्गलैः शापस्यावसाने प्रान्ते जामात्रा सहैवानन्दबाप्पेण निर्भरं यदाननारविन्दं मुखपद्मं ते तवावां द्रक्ष्याव आलोकयिष्यावः । इत्यावेदिते कथिते निर्वृत्तेन स्वस्थेनान्तरात्मना दैवतवद्देववत्तञ्चन्द्रा- पीडशरीरमुपचरन्त्युपचर्या कुर्वन्त्यतिष्ठस्थितवती । अथेति । कियाद्दिनानन्तरं जलदसमये मेघकालेऽपगतवति व्यतिक्रान्ते सति घनस्य मेघस्य निरोधोऽव- ग्रहः स एव बन्धस्तस्मादिवोन्मुक्ते पृथग्भूते जीवलोके सत्याशासु दिशासु प्रसरन्तीष्विव प्रसर्पन्तीविव, फल- भारेण सस्यवीवधेनावनम्राण्यवनतानि यानि कलमाः शालयस्तेषां वनान्यरण्यानि तैः पिञ्जरासु पीतरक्तासु- ग्रामसीमासूपशल्येषु | 'पीतरक्तस्तु पिञ्जरः' इति हैमः | काशकुसुमैर्धवलासु श्वेतास्वरण्यस्थलीषु, सेव्यतामुप- गतेषु प्राप्तेषु प्रासादतलेषु सौधानामधोभागेषु, कहारेण सौगन्धिकेन हारिषु मनोहरेषु पल्वलेष्वाखातसर:- सु, कुमुदानां कैरवाणामामोदेन शीतलासु शिशिरासु यामवतीषु रात्रिषु, शेफालिका वली विशेषरतस्याः परिमल- मामोदं गृह्णन्तीत्येवंशीलेषु निशाया रात्रेरवसानं प्रान्तस्तस्य मातरिश्वसु वायुषु सत्सु, चन्द्रप्रभाः शशिज्यो• त्स्नास्ताभिरभिरामेषु मनोहरेषु प्रदोषेषु यामिनीमुखेषु । 'प्रदोषो यामिनीमुखम्' इति हैमः | उद्दामफुल्ला नि विकसितानि यानीन्दीवराणि नीलकमलानि तेषां रजः परागस्तस्य वासो गन्धस्तेन सुरभिषु सुगन्धिषु वासरेषु पालिका सारं