पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उत्तरभागः । निक्षिप्य वर्तमाने प्रयोजनमेव नास्ति । प्रत्यागतजीविते जीवितेश्वरे स्वयमेवायमत्यद्भुतभूतोऽर्थो गुरुजनेष्वा प्रकटीभविष्यति' इत्येवमादिष्टाश्च ते व्यज्ञापयन्-'देवि, किं विज्ञापयामः । द्वाभ्यामेवापरिज्ञानमस्य वस्तुनः संभवेद्गमनेना स्मदीयेनाकथनेन वा । तदस्माकं तु हस्ते द्वय - मध्येतन्नास्ति । युवराजवैशम्पायनयोर्वार्ता विना दुःखं तिष्ठता देवेन तारापीडेन देव्या बिला- सवत्यायशुकनासेन संभाव्य प्रेषितानामप्रोषितजीवितानासँगमनं तु दूरापेतमेव गत्वापि तु दयिततमत्तनयवार्ता श्रवणलालसस्य राज्ञो देव्या आर्य शुकनासस्य दुःखताक्षीण्युद्वीक्ष्य मु खानि निर्विकारवदनानामस्माकर्मवस्थान मशक्यमेव' इति विज्ञापिता तैरेव मेतदित्युक्त्वा का दम्बरी मेघनादमवादीत्— 'मेघनाद, वेद्मि संस्तुतजनस्यैतदनुचितमिति । तथापि गुरूणां चे त:पीडामेवेक्ष्यमाणया मयैवमभिहितम् | इतरदपि दुःखमाँयाति । कीदृशं भवति किं पुन रिदं महावज्रपतनसदृशम् । तदेतदपि भवतु | एभिः सहापरः कश्चिच्छ्रद्धेयत्रचाः प्रत्यक्षदृष्ट- सकलवृत्तान्तः संप्रत्ययाय व्रजतु' इति । एवमादिष्टस्तु मेघनादो व्यज्ञापयत् – 'देवि, राज लोके तु का कथा । भृत्यवर्गोऽपि सकल एवायं कन्दमूलफलाशी निश्चयं कृत्वास्थितो यथा- ८५८५५ । माने प्रयोजनमेवार्थ एव नास्ति । प्रत्यागतं पश्चादागतं जीवितं यस्यैवंविधे जीवित ईश्वरे चन्द्रापीडे स्वयमे- वायमद्भुतोऽर्थी गुरुजनेषु श्वशुरकुलेष्वासमन्तात्प्रकटीभविष्यति सर्व विदितं भविष्यति । इत्येवमादिष्टाः कथिताश्च ते व्यज्ञापयन्विज्ञप्तिं चक्रुः । हे देवि, किं विज्ञापयामः कां विज्ञप्तिं कुर्मः | अनिवेदनरूपस्यास्य वस्तुनो द्वाभ्यामेवापरिज्ञानं संभवेत् । एतदेव स्पष्टयन्नाह - अगमनेनेति । अस्मदीये ना गम नेनायानेनाकथनेन वा निवे- दनेन वा तद्वय मध्यस्माकं तु हस्ते पाणौ नास्ति । अस्मदधीनं न विद्यत इत्यर्थः । तत्प्रदर्शयन्नाह – युवराजेति । युवराजश्चन्द्रापीडो वैशम्पायनो मन्त्रित एतयोर्वार्ता प्रवृत्तिं विना दुःखं तिष्ठता कृच्छ्रेण स्थितिं कुर्वता देवेन तारापीडेन देव्या विलासवत्यार्यशुकनासेन च संभाव्य विचार्य प्रेषितानां प्रहितानामप्रोषितजीविताना- ममृतानामगमनं तु दूरापेतमेव दूरापास्तमेव । द्वितीयं पक्षं प्रतिक्षिपन्नाह – गत्वेति । तत्र गत्वापि दयित- तमोऽतिवल्लभो यस्तनयः सुतस्तस्य वार्ता प्रवृत्तिस्तस्याः श्रवणमाकर्णनं तत्र लालसस्य सस्पृहस्य राज्ञो देव्या आर्यशुकनासस्य दुःखेन तानि त्रुडितान्यक्षीण येष्वेवंविधानि मुखानि वक्राण्युत्प्रावल्येन वीक्ष्य निरीक्ष्य नि विकारवदनानां शोका दिविकृति वर्जितानामस्माकमवस्थानमशक्यमेव दुष्करमेव । तैर्लेखहार कैरिति विज्ञा- पितेति निवेदिता एवमेतत्सत्यमेवेदमित्युक्त्वा कादम्बरी मेघनादमवादीदब्रवीत् । किं तदित्याह —–— मेघना- देति । हे मेघनाद, अहं वेद्मि जानामि संस्तुतजनस्य परिचितजनस्यैतद निवेदनरूपम नुचितमयोग्य मिति । तथापि गुरूणां श्वशुरादीनां चेतःपीडामवेक्ष्यमाणया विलोक्यमानया मयैतत्पूर्वोक्तमभिहितं कथितम् | इतरदप्येतद्भि- नमपि दुःखमायाति । तदा कीदृशं महावज्रपतनसदृशं महापविपाततुल्यं भवति । किं पुनरिदं दुःखम् । तदे- सायं