सामग्री पर जाएँ

पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५४६ कादम्बरी । अथ गते तस्मिन्विस्मयान्तरितशोकवृत्तान्ता चन्द्रापीडमालोक्य गलितनयनपयसि यथा- स्थानभैपसृत्य स्थितवति सपरिजने राजपुत्रलोके कादम्बरी महाश्वेतामवादीत्—'प्रियसखि, तुल्यदुःखितां त्वया सह नयता न खल्वसुखं स्थापितास्मि भगवता विधात्रा | अद्य मे शिरः समुद्घाटितम् । अद्य ते वदनं दर्शयन्ती प्रियसखीति चाभाषमाणा न लज्जे | तवाप्यहमद्यैव प्रियसखी संजाता | संप्रति मरणं जीवितं वा न दुःखाय मे । तत्कोऽपरः प्रष्टव्यो मया । केन वापरेणोपदेष्टव्यम् । तदेवं गते यत्करणीयं तदुपदिशतु मे प्रियसखी । नाहमात्मना किंचिदपि वेद्मि किं कृत्वा श्रेयः' इत्युक्तवतीं कादम्बरीं महाश्वेता प्रत्यवादीत्– 'प्रियसखि, किमत्र प्रश्नेनोपदेशेन वा । यदेवेयमनतिक्रमणीया प्रियतमसमागमप्रत्याशा कारयति तदेव करणीयम् । पुण्डरीकवृत्तान्तोऽयं कपि जलाख्यानाकुटीभूत: । तत्कालं तु वाड्यात्र केणैव समाश्वासितया मया न पारितमन्यत्किंचिदपि वक्तुम् । तत्त्वमन्यत्किं करोषि यस्याः प्रत्यय - स्थानमिदं चन्द्रापीडशरीरमक एवास्ते । तदन्यथात्वेऽस्य करणीयचिन्ता । यावत्पुनरिदम- विनाशि तिष्ठति तावदेव तस्यानुवृत्तिं मुक्त्वा किमन्यत्करणीयम् । अप्रत्यक्षाणां हि देवतानां अथेति । उत्पतनान्तरं तस्मिन्कपिञ्जले गते याते सति विस्मयेनाश्चर्येणान्तरितो व्यवहितः शोकवृत्तान्तो यस्याः सैवंविधा कादम्वरी महाश्वेतामवादीदवोचत् । कस्मिन्सति । यथास्थानमपसृत्य संस्थितवति सपरिजने सप रिच्छदे राजपुत्रलोके सति। कीदृशे | चन्द्रापीडमालोक्य निरीक्ष्य गलितं च्युतं नयनपयो नेत्रजलं यस्य स तस्मिन् । किमवादीत्तदाह --- प्रियेति । हे प्रियसखि हे वल्लभवयस्ये, त्वया सह भवत्या सार्धं तुल्यं सदृशं दुःखं विद्यते यस्याः सा तुल्यदुःखिनी तस्या भावस्तुल्यदुःखिता तां नयता प्रापयता भगवता विधात्रा | खलु निश्चयेन । अ- सुखं न स्थापितास्म्यसुखेन न रक्षितास्मि । अद्य मे शिरः समुद्घाटितम् । अद्य मया शिरः कर्षितमित्यर्थः । अय ते तव वदनं दर्शयन्त्य वलोकनं कारयन्ती प्रियसखि इति भाषमाणेति जल्पमाना न लज्जे न त्रपे । समदुःखत्वादि- ति भावः । तवापि भवला अप्यद्यैवाहं प्रियसखी वल्लभवयस्या संजाता पूर्व भवत्या एव दुःखितत्वेन वचनमात्रेण प्रियसखित्वमभूत्, सांप्रतं तु समदुःखसुखित्वेनेति भावः । संप्रतीदानीं मरणं जीवितं वा मे मम पूर्वोक्त हे तोरेव न दुःखाय दुःखहेतवे । तत्तस्माद्धेतोरपरोऽन्यः को मया प्रष्टव्यः पृच्छाविषयीकार्यः । केन वापरेणान्येनोपदे- टव्यमुपदेशो दातव्यः । तदेवं गते प्राप्ते सति यत्करणीयं यदेव विधेयं तत्प्रियसखी मे ममोपादिशतु कथ यतु । नाहमात्मना किंचिदपि वेझि किं कृत्वा श्रेयः कल्याणं स्यात् । इत्युक्तवती कादम्बरी महाश्वेता प्रत्य- वादी प्रत्यब्रवीत् - हे प्रियसखि, अत्रास्मिन्नर्थे प्रश्नेन पृच्छयोपदेशेन वा किम् | यदेवेयमनतिक्रमणीयानुल्लङ्घनी- याप्रियतमसमागम प्रत्याशा वल्लभजनमेलापकसमीहा कारयति निष्पादयति तदेव करणीयं कार्यम् । भवत्या इति शेषः । पुण्डरीकस्य वृत्तान्त उदन्तोऽद्य कपिजलस्याख्यानात्कथनात्स्फुटीभूतः प्रकटीभूतः । तत्कालं Feed के निं