उत्तरभागः । दुःखस्यावसरः, येनैवात्मानं शुचा व्यापादयसि । यदसातरं तैत्त्वया निर्व्यूढं तहृदयस्यैव समागमप्रत्याशया । यथा च शापदोषादिदमुपगतं भवत्योर्द्वयोरपि दुःखं तथा मया कथित मेव । चन्द्रमसोऽपि भारती भवतीभ्यां श्रुतै | तदुन्मुच्यतामयमात्मनो वयस्यस्य चा- यस्करः शोकानुबन्धः । द्वयोरेवँ श्रेयसे यदेव भवत्याङ्गीकृतं तदेवानुबध्यतां व्रतपरिग्रहोचितं तपः । तपसोर्हि सम्यकृतस्य नास्त्य साध्यं नाम किंचित् । देव्या हि गौर्या तपसः प्रभावाद- तिदुरासदं स्मरारेरपि यवदासादितं देहार्धपदम् । एवं त्वमपि नैचिरात्तथैव मे वयस्यस्याङ्के निर्जतैप प्रभावात्पदवाप्स्यसि' इति महाश्वेतां पर्यवोधयत् । उपशान्तमन्युवेगायां च महा- श्वेतायां विषण्णदीनमुखी कादम्बरी कपिञ्जलमप्राक्षीत् – 'भगवन्कपिञ्जल, पत्रलेखया त्वया चास्मिन्सरसि जलप्रवेशः कृतस्तत्किं तस्या पत्रलेखायाः संवृत्तमित्यावेद नेन प्रसादं करोतु भगवान्' इति । स तु प्रत्यवादीत् – 'राजपुत्रि, सलिलपातानन्तरं न कश्चिदपि तद्वृत्तान्तो मया ज्ञातः । तदधुना क चन्द्रात्मकस्य चन्द्रापीडस्य के पुण्डरीकात्मनो वैशम्पायनस्य जन्म किं वास्याः पत्रलेखा या वृत्तमिति सर्वथैवास्य वृत्तान्तस्यावगमनाय गतोऽहं प्रत्यक्ष- लोकत्रयस्य तातस्य श्वेतकेतोः पादमूलम्' इत्यभिधान एव गगनमुदपतत् । सति सुखफलस्य साक्षात्कारे कर्तव्ये सति दुःखस्य कृच्छ्रस्यावसरः प्रस्तावः । येनैव येन हेतुना शुचा कृत्वा त्मानं व्यापादयसि शरीरात्पृथक्करोषि यदसह्यतरं सोढुमशक्यं तत्त्वया निर्व्यूटमतिक्रान्तं हृतं हृदयं यस्यैवं भू- तस्यास्य पुण्डरीकस्य समागमो मेलापस्तस्य प्रत्याशया वाञ्छया च । यथा च भवत्योर्द्वयोः शापदोषादि दुःख- मसातमुपगतं प्राप्तं मया कथितमेव निवेदितमेव । चन्द्रमसोऽपि चन्द्रस्य भारती वाणी भवतीभ्यां श्रुते- याकर्णितैव । तदयमात्मनो वयस्यस्य चाश्रेयस्करोऽकल्याणकृच्छोकानुवन्धः शोचनप्रवन्धः उन्मुच्यतां त्यज्य- ताम् । द्वयोरेव श्रेयसे शुभार्थं यदेव भवत्याङ्गीकृतं स्वीकृतं तदेव व्रतपरिग्रह उचितं योग्यं तपोऽनुवध्यतां क्रियताम्। हि यस्माद्धेतोः सम्यक्प्रकारेण कृतस्य तपसश्चान्द्रायणादेः । नामेति कोमलामन्त्रणे किंचिदसाध्य- मकर्तव्यं नास्ति। अत्रार्थे निदर्शनं प्रदर्शयन्नाह - गौर्याः पार्वत्यास्तपसञ्चान्द्रायणादेः प्रभावान्माहात्म्यात्स्मरारे- रपि महाश्वेतस्यापि अतिदुःखेनासाद्यत इति दुरासदम् । अर्ध देहस्य देहार्ध: । 'अर्ध नपुंसकं' इति समासः । तदेव पदं स्थानमासादितं प्राप्तम् । एवं त्वमपि नचिरात्स्तोककालेन तयैवं वयस्यस्य पुण्डरीकस्याङ्के कोडे निजतपःप्रभावात्पदमवाप्स्यसीति महाश्वेतां पर्यवोधयत्प्रतिबोधयामास | उपशान्तः प्रशान्तो मन्युवेगः शोकरयो यस्याः सा तस्यां महाश्वेतायां च सविषण्णा विलक्षा चासौ दीनमुखी च विषण्णदीनमुखी कादम्बरी कपिञ्जलमत्राक्षीदमपृच्छत् - हे भगवन्कपिञ्जल, पत्रलेखया त्वया चास्मिन् सरसि अच्छोदतटाके जलप्रवेशः पानीयावगाहः कृतः । तदिति हेत्वर्थे । तत्तस्मात्तस्याः पत्रलेखायाः किं संवृत्तं किं संजातमित्यावेदनेनेति प्रकथ- नेन भगवान्कपिञ्जलः प्रसादमनुग्रहं करोतु विदधातु । स तु मुनिः प्रत्यवादीत्प्रत्यत्रवीत् । किं तदित्याह - रा. ted at: पत्रलेखोaat as
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५४२
दिखावट