५४३ यदेवमति विस्तीर्ण गगनमार्गे त्वयाहमुद्दामप्रचारिणा तुरंगमेणेवोपैलचितस्तस्मात्तुरंगम एव भूत्वा मर्त्यलोकेऽवतर' इति । अहं तु तमुद्वाष्पपक्षमा कृताञ्जलिरवदम् – 'भगवन्, वयस्य- शोकान्धेन त्वं मयोल्लङ्गितो नावज्ञया | तत्प्रसीद | उपसंहर शापमाशु त्वमिमम्' इति । स तु मां पुनरवादीत् – 'येन्मयोक्तं तन्नान्यथा भवितुमर्हति । तदेतत्तं करोमि । कियन्तमपि कालं यस्यैव वाहनतामुपयास्यसि तस्यैवावसाने स्नात्वा विगतशापो भविष्यसि' इति । एवमुक्तस्तु पुनस्तै महमवदम् – 'भगवन्, यद्येवं ततो विज्ञापयामि । तेनापि मंत्प्रियवयस्येन पुण्डरीकेण चन्द्रमसा सह शापदोषान्मर्त्यलोक एवोत्पत्तव्यम् । तदेतावन्तमपि भगवान्प्रसादं करोतु मे दिव्येन चक्षुषावलोक्य यथा तुरङ्गमत्वेऽपि मे तेनैव प्रियवयस्येन सहावियोगेन कालो यायात्' इति । सत्वेवमुक्तो मुहूर्तमिव ध्यात्वा पुनर्मामवादीत् – 'अनया स्नेहलतया ते ममोर्गीकृतं हृदयम् । तदालोलितं मया | उज्जयिन्यामपेत्यहतोस्त पस्यतस्तारापीडनाम्नो राज्ञः सनिदर्शनं चन्द्रमसा तनयत्वमुपगन्तव्यम् । वयस्येनापि ते पुण्डरीकेण तन्मत्रिण एव शुकनासनाम्नः । त्वमपि तस्य महोपकारिणश्चन्द्रात्मनो राजपुत्रस्य वाहनतामुपयास्यसि' इति । अहं तु तद्वचनानन्तरमेवाधः स्थिते महोदधौ न्यपतम् | तस्माच तुरङ्गीभूयैवोदतिष्ठम् । संज्ञा तु मे 'तुरंमत्वेऽपि नै व्यपगता । येनायं मयास्यैवार्थस्य कृते किंनर मिथुनानुसारी भूमि- उत्तरभागः । पथि त्वया भवताहमुद्दामप्रचारिणोद्धतगमनशीलेन तुरंगमेणेवाश्वेनेवोपलङ्घितउल्लवितास्तस्मात्त्वं मर्त्यलोके तु- रंगम एव ययुरेव भूत्वा मर्त्यलोके मनुष्यभूमाववतरावतारं गृहाणेति । अहं तु तं वैमानिकमुदूर्ध्वं बाप्पो य- स्मिन्नेतादृशं पक्ष्म यस्य स तथा कृताञ्जलिः संयोजितपाणिरवदमब्रुवम् । हे भगवन्, वयस्यस्य मित्रस्य शोकः शुक्तेनान्धस्तेन मया त्वमुल्लङ्घितो नावज्ञयाशातनया | तदिति हेत्वर्थे । प्रसीद प्रसन्नो भव | त्वमिमं शाप- माशपसंहर निवर्तय | स तु वैमानिकः पुनर्द्वितीयवारमवादीदब्रवीत् | यन्मयोक्तं कथितं तद था कथिताद- न्यद्भवितुं नार्हति । तत्तस्माद्धेतोरेतत्ते तव करोम्यनुतिष्ठामि । कियन्तमपि कालमनेहसं यस्यैव पुंसो वाहनतां युग्यतामुपयास्यस्युपगमिष्यसि तस्यैव पुंसोऽवसानेऽन्ते स्नात्वा स्नपनं कृत्वा विगतशापः शापनिर्मुक्तो भविष्यसीत्येवमुक्तस्तु पुनस्तं वैमानिकमहमवदम् – हे भगवन्, यद्येवं ततो हेतोर्विज्ञापयामि विज्ञप्तिं करोमि । किं तदित्याह -- तेनेति। तेनापि मत्प्रियवयस्येन पुण्डरीकेण चन्द्रमसा चन्द्रेण सह शापदोषान्मर्त्यलोक एवोत्प- त्तव्यं जन्म ग्रहीतव्यम् । तत्तस्मात्कारणा देतावन्तमपीयन्मात्रमपि भगवान्मे मम प्रसादं करोतु दिव्येन चक्षुषा ज्ञानलोचनेनावलोक्य निरीक्ष्य यथा तुरंगमत्वेऽप्यत्वेऽपि तेनैव प्रियवयस्येन सहावियोगेन संयुक्तन कालोs- नेहा यावद्द्रच्छेदिति । सं त्वेवं पूर्वोक्त प्रकारेणोक्तः कथितो मुहूर्तमिव ध्यात्वा ध्यानं कृत्वा पुनर्मामवादीदभ्य- धात् । ते तवानया स्नेहलस्य भावः स्नेहलता तयानार्द्र माई संपन्न मित्याकृतं मम हृदयं चेतः । तत्तस्मादालोकितं निरीक्षितं मया। उज्जयिन्यां विशालायामपत्यहेतोः संतानार्थं तपस्यतस्तपः कुवैतस्तारापीडनाम्नो राज्ञः सनिदर्शनं
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५४०
दिखावट