पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५३८ कादम्बरी । देवस्य कण्ठलना निर्वापयाम्यात्मानम्' इत्यंभिधानैव कृतावधारणानुबन्ध मदलेखाभव- क्षिप्योपसृत्य महाश्वेतां कण्ठे गृहीत्वा निर्विकारवदनैव पुनस्तामवादीत् - 'प्रियसखि, तवास्ति कीदृश्यपि प्रत्याशा ययानुरागपरवशा पुनः समागमाकाङ्क्षणी क्षणे क्षणे मेरणाभ्य- धिकानि दुःखान्यनुभवन्ती जीवितमलज्जाकरमननुशोच्यमनुपहसनीयमवाच्यं धारयसि । मम पुनः सर्वतो इताशायाः सापि नास्ति । तदामत्रये प्रियसखीं पुनर्जन्मान्तरसमागमाय' इत्यभिधायोत्पद्यमानपुलक के सरोद्भासिन्य समसाध्वसानिलाहतोत्कम्पोत्तरंग्यमाणानन्दबाप- वेगोर्मितरला संगलत्स्वेदमकरन्दबिन्दुनिस्यन्दिनी मुकुलायमाननयनकुमुदा कुमुदिनीव च- न्द्रापीड'चन्द्रास्तमयविधुरा तदवस्थेऽपि हृदयवल्लभे समागमसुखमिवानुभवन्ती सरभसमु परिपर्यस्तचिकुरहस्तोद्वान्तकुसुमनिवहेन मूर्ध्नार्चयित्वा चन्द्रापीडचरणौ स्रवत्स्वेदामृताभ्यां कॅराभ्यामुत्क्षिप्याङ्केन वृतवती । अथ तत्करस्पर्शेनोच्छ्रसत इव चन्द्रापीडदेहाज्झटिति तुहिनमय मिव सँकलमेव तं प्रदेशं कुर्वाणमव्यक्तरूपं किमपि चन्द्रधवलं ज्योतिरिवोज- गाम । अनन्तरं चौन्तरिक्षे क्षरन्तीवामृतमशरीरिणी वागश्रूयत- 'बरसे महाश्वेते, पुनरपि 45 तेषां शयनीयैश्च | अन्वयस्तु प्रागेवोक्तः । इति पूर्वप्रतिपादितमभिदधाना ब्रुवाणा एव कृतो विहितोऽवधारणे देहपरित्यागेऽनुवन्धो निश्चयो यया सैवंविधां मदलेखामवक्षिप्य दूरीकृत्य महाश्वेतामुपसृत्य समीपे गत्वा कण्ठे निगरणे गृहीत्वा । कण्ठाश्लेषं विधायेत्यर्थः । निर्विकारवदना एव शुग्जनितविकृतिवर्जितानना एव पुनस्तां महाश्वेतामवादीदवोचत् । हे प्रियसखि महाश्वेते, तव भवत्याः कीदृश्य यूनिर्दिष्टनाम्यपि प्रत्याशा लिप्सा वर्तते यया प्रत्याशयानुरागपरवशानुरत्याधीना पुनर्द्वितीयवारं पुण्डरीकस्य समागमस्तस्या काङ्क्षिणी तद्वा- छाविधायिनी क्षणे क्षणे मरणेभ्योऽधिकानि दुःखानि कृच्छ्राण्येवमनुभवन्त्यनुभवविषयकुर्वन्ती । अलज्जा- करमत्रपोत्पादकमननुशोच्यमविमर्थमनुपहसनीयं परेषामनुपहसनार्हमवाच्यमवचनीयमेवंविधं जीवितं धार- यसि दधासि । मम पुनः सर्वतोऽभितो हता ध्वस्ताशा वाञ्छा यस्याः सैवंविधायाः सापि प्रत्याशापि नास्ति । तत्तस्माद्वेतोरहं पुनर्जन्मान्तरे भवान्तरे समागमाय मेलापकाय प्रियसखीमामन्त्रये निमन्त्रये । इत्यभिधाये- त्युक्त्वोत्पद्यमानः संजायमानो यः पुलको रोमाञ्चः स एव केसरं कुङ्कुमं तेनोद्भासिनी शोभमानासमं विषमं यत्साध्वसं भयं तस्मादनिलः श्वासप्रवृद्धिस्तेनाहता ताडिता उत्कम्पेनोत्तरङ्ग्यमाणो चैनयमानानन्दवाष्पवेगो- र्मिभिर्हर्षा श्रुरंहस्त रंगैस्तरला चञ्चला सम्यक्प्रकारेण गलन्स्वेदो घर्मजलं स एव मकरन्दविन्दुस्तस्य निस्यन्दिनी क्षरणशीला मुकुलायमाने संकोचं प्राप्यमाणे नयने कुमुदे यस्याः सा तथा । कुमुदिनीव कैर विणीव चन्द्रापीड इव चन्द्रः शशाङ्कस्तस्यास्तमयोऽस्तमनं तेन विधुरा दुःखिता। 'विधुरं प्रेत्यभावे स्यात्कृष्ट विश्लेषयोरपि ' इति विश्वः । तदवस्थेऽपि तादृशरूपेऽपि हृदयवल्लभे प्राणप्रिये समागमसुखमिव मेलापकसातमिवानुभवन्ती साक्षात्कुर्वन्ती सरभसमुपरि पर्यस्तो निपतितो यश्चिकुरहस्तः केशकलापस्तस्मादुद्वान्तः कुसुमानां पुष्पाणां निवहो येनैवं विधेन मर्धा शिरसा चन्दापीचरण पादावयित्वा कोट mart