पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उत्तरभागः । ५३७ यथा फलं गृह्णन्ति तथा संवर्धनीयाः पञ्जरबन्धदुःखाद्वराकी कालिन्दी सारिका शुकच परि- हासो द्वावपि मोक्तव्यौ । मदकशायिनी नकुलिका स्वाङ्क एव शाययितव्या । पुत्रको मे बालहरिणस्तरलकः कैस्मिंश्चित्तपोवने समर्पणीयः । पाणितलसंवर्धितं मे जीवंजीव मिथुनं क्रीडापर्वते यथा न विपद्यते तथा कर्तव्यम् । पादसहसंचारी हंसको यथा न हन्यते केन- चित्तथा विधेर्यैः । अपरिचितगृहवसतिः सा च बलाद्विधृता तपस्विनी वनमानुषी वन एवोत्स्रष्टव्या | क्रीडापर्वतकः कस्मैचिदुपशान्ताय तपस्विने प्रतिपादयितव्यः । शरीरोपक- रणानि मे ब्राह्मणेभ्यः प्रतिपादनीयानि | वीणा पुनरात्मन एवाङ्कप्रणयिनी कार्या | अपरमपि यत्ते रोचते तदपि स्वीकर्तव्यम् । अहं पुनरिमममृत किरणरश्मिभिरनाश्यानचन्दनचर्चाभिर- नवरतधारागृहासारसे कैरै नेक संतानतुहिन किरण किरणनिकरतार कितता रहारार्पणैर्मणिदर्पण - णयनेन मलयजजलाईपद्मिनी पलास्तरणेन सरसबिस किसलय प्रस्तरैर कठोर मृणालतल्पकल्प- नैयोगविकसित कमलकुमुदकुवलयशयनीयैश्च दग्धशेषमुज्ज्वलचिताज्वालामालिनि विभावसौ । कार्यः । मया स्वयमात्मना रोपिता उप्ताश्चूतवृक्षा आम्रवृक्षा यथा फलं गृह्णन्ति तथा संवर्धनीया वृद्धिं प्रापणीयाः । पञ्जरबन्धदुःखाद्वराक्यनाथा कालिन्दीनाम्नी सारिका पीतपादा शुकच परिहासाख्यो द्वावपि मोक्तव्यौ मोचनीयौ | मदशायिनी मदीयकोडशयनकारिणी नकुलिका पिङ्गलिका स्वाङ्क एवं स्वकीयक्रोड एव शाययितव्या शयनं कारयितव्या । मे मम पुत्रकस्तरलकश्चञ्चलो बालहरिणः शिशुकुरङ्गः कस्मिंश्चित्तपो- वने मुनिस्थाने समर्पणीयः प्रदातव्यः । मे मम पाणितलेन करतलेन संवर्धितं वृद्धि प्रापितं जीवंजीव कमि- थुनं विषदर्शनमृत्युकयुग्मं चकोरयुगलं क्रीडापर्वते यथा न विपद्यते विलयं न याति तथा कर्तव्यं तथा विधेयम् । पादाभ्यां सहसंचारी हंसको यथा केनचिन्न हन्यते न व्यापाद्यते तथा विधेयः कर्तव्यः । अपरिचिता गृहवसतिः सौधावस्थानं ययैवंविधा तपस्विनी वराकी वनमानुषी बलाद्धठाद्विधता गृहीता सा च वन एवोत्सष्टव्या मोच्या | क्रीडापर्वतकः । 'पवयी' इति प्राकृतलोके । कस्मैचिदनिर्दिष्टनान उपशान्ताय शीतलप्रकृतये तपस्विने मुनीश्वराय प्रतिपादयितव्यः प्रदातव्यः । शरीरस्य देहस्य मे ममोपकरणानि ब्राह्मणेभ्यो विप्रेभ्यः प्रतिपादनीयानि दातव्यानि | वीणा वलकी पुनरात्मनः स्वस्यैवाङ्के प्रणयः स्नेहो यस्याः सैवंविधा कार्या । अपरमप्यन्यदपि यद्वस्तु ते तव रोचते रुचिविषयीभवति तदपि वस्तु स्वीकर्तव्यमङ्गी- कार्यम् । अहं कादम्बरी पुनरिममात्मानमेतैः शीतलवस्तुभिः कृत्वा दग्धशेषं ज्वलितोर्वरितमुज्ज्वला दीप्ताश्चिताया श्चितेला अर्चिषस्ताभिर्मालत इत्येवंशीलः स तथा तस्मिन्नेवभूते विभावसावन देवस्य राज्ञः । 'देवः सुरे वने राज्ञि देवमाख्यातमिन्द्रियम्' इति यादवप्रकाशः । कण्ठे निगरणे लग्नासक्ता निर्वापयामि शीतलीकरोमि । एतेन वह्नितप्तेर्विरहज निततापस्याधिक्यमसूचि । एतैः कैरित्यपेक्षायामाह- अमृतेत्यादि । अमृत किरणश्चन्द्रस्तस्य रश्मिभिः किरणैरनाश्यानमशुष्कं यच्चन्दनं मलयजं तस्य चर्चाभिः समालम्भनैरनवरतं निरन्तरं धारागृहाणामासारो वेगवदृष्टिस्तेन से कैः सेचनैरनेक संताना अनेक परंपरा ते तुहिनकिरणस्य चन्द्रमसः किरणास्तेषां निकरः समूहस्तेन तारकिताः संजाततारका ये तारा उज्ज्वला हारा