पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५३६ कादम्बरी । दुःखमेवंविधम् । अधुना तु मे सर्वदुःखान्येव दूरीभूतानि । किमद्यापि रुद्यते । यदर्थं कुलक्रमो न गणितः, गुरखो नापेक्षिताः, धर्मो नानुरुद्धः, जनवादान्न भीतम्, लज्जा परि- त्यक्ता, मदनोपचारैः सखीजन: खेदितः, दुःखिता मे प्रियसखी महाश्वेता । तस्याः कृते प्रतिज्ञातमन्यथा जातं भैयेत्येतदपि चेतसि न कृतम् । तस्मिन्मदर्थमेवोज्झितप्राणे प्राणेश्वरे प्राणान्प्रतिपालयन्ती त्वयैवं किमुक्ताम् । अस्मिन्समये मरणमेव जीवितम् । जीवितं पुन- र्मरणम् । तद्यदि ममोपरि स्नेहः करोषि मत्प्रियं हितं वा, तन्ममोपरि स्नेहाबद्धयापि प्रिय- सख्या तथा कर्तव्यं यथा न तातोऽम्बा च मच्छोकादात्मानं परित्यजतः । यथा च मयि वाञ्छितं मनोरथं त्वयि पूरयतः । परलोकगताया अपि मे जलाञ्जलिदानाय पुत्रकस्त्वयि भवः । यथा च मे सखीजनः परिजनो वा न स्मरति, शून्यं वा मद्भवनमालोक्य न दिशो गृह्णन्ति, तथा करिष्यसि | पुत्रकस्य मे भवनाङ्गणे सहकारपोतस्य त्वया मच्चिन्तयैव माध- वीलतया सहोद्वाहमङ्गलं वयमेव निर्वर्तनीयम् । मणरणतललालितस्याशोकविटपस्य कर्ण- पूरार्थमपिन पैलवः खण्डनीयः । मत्संवर्तिताया मालत्याः कुसुमानि देवतार्चनायैवोच्चेयानि । वासभवते मे शिरोभागनिहितः कामदेवपट: पाटनीयः । मया स्वयं रोपिताधूतवृक्षों चरणरज इव पादावनुगन्तुमुद्यता कथं वा हर्षस्थाने रोदिमि रुदनं करोमि । एवंविधं किं मे दुःखम् अधुना तु मे मम सर्वदुःखान्येव दूरीभूतानि । किमद्यापि मया रुद्यते । यदर्थ यत्कृते कुलकमोऽन्वय स्थितिर्न गणितो नापेक्षितः । गुरवो हिताहितप्राप्तिपरिहारोपदेष्टारो नापेक्षिता न समीहिताः । धर्मो नानुरुद्धो न नियन्त्रितः । जनवादात्कौली नान्न भीतं न त्रस्तम् । 'स्थात्कौलीनं लोकवादे' इत्यमरः । लज्जा त्रपा परित्यक्ता मुक्ता | मदनो- पचारैः कामोपशमन क्रियाभिः सखीजनः खेदितः खेदं प्रापितः । दुःखिता पीडिता मे मम प्रियसखी महाश्वेता | तस्या महाश्वेतायाः कृते प्रतिज्ञातमङ्गीकृतं तदन्यथा वैपरीत्येन जातं मयेत्येतदपि चेतसि न कृतम् | मदर्थं का- दम्बर्या एवोज्झितप्राणे त्यक्तजीविते तस्मिंश्चन्द्रापीडाख्ये प्राणेश्वरे ग्राणानसून्प्रतिपालयन्ती रक्षन्ती वयैवं भवत्या किमुक्ताहं किं भणिता । अस्मिन्समये सांप्रतकाले मरणमेव जीवितं प्राणत्यागमेव प्राणितम् । जीवितं पु नर्मरणं प्राणत्यागः । त्रपाजनकलात् । तद्यदि ममोपरि स्नेहः प्रीतिर्मत्प्रियं मद्वल्लभं हितमायतिसुन्दरं वा त्वं करोषि विदधासि तन्मम कादम्वर्या उपरि यः स्नेहः प्रेम तेनावद्धया संदानितयापि प्रियसख्या वल्लभवयस्या तथा कर्तव्यं तथा विधेयं यथा तातश्चित्ररथोऽम्बा सदिरा च मच्छोकान्मद्विरहजनितदुःखादात्मानं न परित्यजतः प्रा- णमोक्षणं न कुरुतः। यथा मथि वाञ्छितं मनोरथमभिलपितं कामं त्वयि पूरयतः परिपूर्णांकुरुतः । परलोकग- ताया अन्यभवं प्राप्ताया अपि मे मम जलाञ्जलिदानाय मृतस्य पानीय प्रदानायायं पुत्रकस्त्वयि भवः । यथा च मे मम सखीजनः परिजनो वा परिच्छदलोको वा दुःखाभिभूतो भृत्यजनो न स्मरति न स्मृतिगोचरीकरोति । शून्यं रिक्तं वा मद्भवनं मद्गृहमालोक्य निरीक्ष्य दिशो न गृह्णन्ति । अन्यत्र न यान्तीत्यर्थः । त्वं मदलेखा तथा करिष्यसीत्यर्थः । मे मम पुत्रकस्य भवनाङ्गणे सहकारपोतस्य त्वया भवत्या मच्चिन्तयैव मम चिन्तयैव माधवी-