५३९ उत्तरभागः | त्वं मयैव समाश्वासितव्या वर्तसे । तेत्ते पुण्डरीकशरीरं मल्लोके मत्तेजसाध्यायमानमविनाशि भूयस्त्वत्सँमागमनाय तिष्ठत्येव । इदमपरं मत्तेजोमयं स्वत एवाविनाशि विशेषतोऽमुना का दम्बरीकरस्पर्शेनाप्यायमानं चन्द्रापीडशरीरं ज्ञापतोषाद्विमुक्तमप्यन्तरात्मना कृतशरीरसं- क्रान्तेर्योगिन इव शरीरमन्त्रैव भवत्योः प्रत्ययार्थमा शापक्षयादास्ताम् । नैतदभिना संस्कैर्त- व्यम् । 'नोदके प्रक्षेप्तव्यम् । नापि वा समुत्स्रष्टव्यम् । यत्नतः परिपालनीयमा समागम- प्राप्तेः' इति । तां तु श्रुत्वा किमेतदिति विस्मिताक्षिप्तहृदयः सर्व एव परिजनो गगनतलनि- वेशितनिर्निमेषलोचनो लिखित इव पत्रलेखावर्जमतिष्ठत् । पत्रलेखा तु तेन तस्य ज्योति- वस्तुषारशीतलेनाहादहेतुना स्पर्शेन लब्धसंज्ञोत्थायाविष्ठेव वेगाद्धावित्वा 'परिबद्धकहस्तादा- छिद्येन्द्रायुधम् 'स्मद्विधानां यथा तथा भवतु, त्वं पुनरेवमेकाकिनि विना वाहनं दूरं प्रस्थिते देवे क्षणमप्यवस्थातुं न शोभसे' इत्यभिधाना तेनैवेन्द्रायुधेन सहात्मानमच्छो, दसरस्यक्षिपत् । अथ तयोर्निमज्जनसमयानन्तरमेव तस्मात्सरसः सलिलाच्छैवलोत्करमिव शिरसि लग्नं त्वं मयैव समाश्वासितव्याश्वासनां कारितव्या वर्तसे | तत्ते तव पुण्डरीकशरीरं मलोके मत्तेजसा मद्धान्नाप्या- यमानं शीतलीक्रियमाणमत एवाविनाश्यविनश्वरं भूयः पुनरपि त्वया सह समागमो मेलापस्तस्मै तिष्ठत्येव । इमपरमन्यन्मत्तेजसा निष्पन्नं मत्तेजोमयमतः स्वत एव स्वभावत एवाविनाश्यविनश्वरं विशेषतः कादम्बरी- करस्पर्शेनाप्यायमानं शीतलीक्रियमाणं चन्द्रापीडशरीरं शापदोषाद्विमुक्तमपि रहितमप्यन्तरात्मना मध्यवर्तिना जीवेन कृता विहिता शरीरे देहान्तरे संक्रान्तिः संक्रमणं तस्य योगिन इव आपरमाणुवेदिनो योगिनस्तस्येव भव- त्योर्महाश्वेताकादम्बर्योः प्रत्ययार्थं विश्वासार्थमाशापक्षयाच्छापक्षयं मर्यादी कृत्या त्रैवास्मिन्नेव स्थल आस्तां ति- ठतु | एतच्छरीरमग्निना वहिना न संस्कर्तव्यं न संस्कारः कार्य:, नोदके जलेषु प्रक्षेसव्यं प्रक्षेपः कार्यः, नापि वा समुत्स्रष्टव्यं त्यजनीयम् । आसमागमप्राप्तेर्यावद्यत्नतः परिपालनीयम् । महोद्यमेन रक्षणीयमित्यर्थः। तां तु पूर्वोक्तां वाणीं श्रुत्वाकर्ण्य किमेतदिति विस्मितेन विस्मयेनाक्षिप्तहृदयश्चमत्कृतचेताः सर्व एव परिजनो गगनतले निवेशिते स्थापिते निर्निमेषं मेषोन्मेषरहिते लोचने नेत्रे येन सः । अत एव लिखित इच चित्रित इव पत्रलेखां वर्जयित्वातिष्ठत् । पत्रलेखा तु तेन तस्य ज्योतिषस्तुषारवद्धिमवच्छीतलेना ह्लादहेतुना प्रमोदकार- णेन स्पर्शेन संश्लेषेण लब्धसंज्ञा प्राप्तचैतन्योत्थायोत्थानं कृत्वाविष्टेव भूतग्रस्तेव वेगाज्जवाद्धावित्वा धावनं कृत्वा परिबद्धकहस्तादश्वपालककरादिन्द्रायुधमाच्छिय बलाद्गृहीत्वाप्यस्मद्विधानाम स्मत्सदृशानां यथा तथा भवतु | त्वं पुनरेकाकिनी विना वाहनं यानं विना दूरं प्रस्थिते चालते देवे क्षणमपि समयमात्रमण्यवस्थातुमवस्थिति कर्तुं न शोभसे न शोभां प्राप्नोषीत्यभिदधाने ति ब्रुवाणा तेनैवेन्द्रायुधेन सहात्मानं स्वमच्छोदसरस्येवाक्षिपचिक्षेप |
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५३६
दिखावट