पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२० कादम्बरी । वचनं च तं पुनरपृच्छत् । किमाकलयस्यद्यतेनेनाहा यावत्परापतिता पत्रलेखा नेति व्यज्ञपयत् - 'देव, यद्यन्तरा कश्चिदन्तरायो न भवति विलम्बकारी, तदा विना संदेहे- पतितैवागच्छति मे हृदयम् । इत्युक्तवति मेघनादे घनसमयवर्धिताभोगमकरध्वजार्ण पातिनीं स्वानुमानात्कादम्बरी मुत्प्रेक्ष्योत्प्रेक्ष्य विक्लवीभवत: पर्यावर्त्यन्त इवास्य जलधरा पुरुषैः, तडितो मदनानलशिखाभिः, अवस्फूर्जितं प्रेतपतिपटहस्वनैः, आसारधाराः स्म आमन्द्रगर्जितं मकरध्वजधनुर्ज्यागुञ्जिताभोगेन, कलापिकेकाः कालदूतालापैः, केतव विषपरिमलेन, खद्योताः प्रलयानलस्फुलिङ्गरॉशिभिः, अलिवलयानि कालपाशै:, क श्रेणयः ग्रेतपतिपताकाभिः, आपगा: सर्वक्षयमहापूरप्लवैः, दुर्दिनापि कालराज्या, कुटर कृतान्तहासैः । अपि च शरीरेऽपि सत्त्वं कातरतया, वलं क्षामतया, कान्तिर्वैवर्ण्यन मोहेन, धैर्य विपादेन, हसितं शुचा, नयनसश्रुणा, आलपनं मौनेन, अङ्गायंस निवेद्य विरराम विरतो वभूव विरतवचनं मौनावलम्विनं च तं मेघनादं पुनरपृच्छत् । किं तदि- किमिति । किमाकलयसि किं जानासि । अद्यतनेनाहा दिवसेन यावत्, पत्रलेखा परापतित नेति न प्राप्ता वा । स तु मेधनादो व्यज्ञपयत् - हे देव, यद्यन्तरा मध्ये कश्चिदन्तरायः प्रत्यू म्वकारी परिलम्वकृन्न भवति न स्यात्, तदा संदेहेन विना निःसंदेहं परापतितैव तत्र गतैव मे मस् चेत इत्यवगच्छति जानातीति मेघनाद उक्तवति कथितवति सति घनसमयो वर्षाकालस्तेन वाधे प्रापित आभोगो विस्तारो यस्यैवंभूतो यो मकरध्वज एवार्णवः समुद्रस्तस्य मध्यपातिनीं तदन्तर्गत मानादपि । यथा तस्या दुःखेन विरहेणाहं दुःखवान्, तथा मद्विरहेण सापि भविष्यतीत्यनुमानं दित्यर्थः । कादम्बरीमुत्प्रेक्ष्योत्प्रेक्ष्य हृदयवर्तिनीं विलोक्य विलोक्य विक्लवीभवतो विह्वलीभ चन्द्रापीडस्य जलधरा मेघाः कालपुरुषैर्यमकिंकरैः पर्यावर्त्यन्त इवात्मसात्कियन्त इव । स्वस्वरूपम इवॆति यावत् । अतो जलधराः कालपुरुषा एव बभूवुरित्यर्थः । एवममेऽपि पर्यावर्त्यन्त इवेति य योज्यम् । तडितो विद्युतो मदन एवानलो बह्निस्तस्य शिखाभिर्ज्वालाभिः पर्यावर्त्यन्त इव | अवस्फूर्जित गर्जितं प्रेतपतिर्यमस्तस्य पटहो ढक्का तस्य स्वनैः शब्दैः पर्यावर्त्यत इव | क्वचित् 'तपुरीपटहस्वनेन पाठः । आसारधारा वेगवदृष्टिधाराः स्मरस्य कंदर्पस्येषवो वाणास्तैः पर्यावर्त्यन्त इव । आमन्द्रगर्जितं गन नितं मकरध्वजधनुपो ज्या प्रत्यच्चा तरया गुजितं शब्दितं तस्याभोगेन विस्तारेण पर्यावर्त्यत इव | केका मयूरवाण्यः कालदूता यमप्रहितजवास्तेषामालापैः संभाषणैः | केतकस्य ऋकचच्छदस्यामोदः परि गरलं तस्य परिमलेन । खद्योता ज्योतिरिङ्गणाः प्रलयस्य कल्पान्तस्यानलो वह्निस्तस्य स्फुलिङ्गा अग्निक राशिभिः समूहैः पर्यावर्त्यन्त इव । 'खद्योतो ज्योतिरिङ्गणः' इति हैमः।अलिवलयानि भ्रमरकटकानि काल वन्धनैः | बला काश्रेणयो बिसकण्टिकासमहाः प्रेतपतिर्यमस्तस्य पताकाभिवैजयन्तीभिः आपगा नद्यः स