पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उत्तरभागः । १ ५२१ । सान्तमैदनदुःखोत्कलिकासहस्रै- करणान्यपाटबेन, सर्वमेवारत्या | दिवसैचोल्लिख्यमानमिवानवरसवाँहिनापूरप्रवाहणावभ ज्यमानमिव । सततैर्निश्वासप्रभञ्ज नैरुत्खन्य मानमिव । संततैः रजसपातिभिरितस्ततो जर्जरीक्रियमाणमिव । अपि च सहस्रैर्मकरध्वजशरासारैर्वपुपैव च सह क्षीयमाणमिव स्वल्पावशेष संकल्पलिखितेन निर्विशेषवृत्तिना कादम्बरीशरीरेणैव सह कण्ठलग्नं कथंकथमपि जीवितं धारयन्, धांराधर क्लिन्नतीरतरुतलमालावितोपान्तहरितशा- द्वलम्, अँशेषतटलतावनम्, अनवरतरोधोजलप्रैवेशकलुषितप्रान्तम्, अवशीर्यमाणोद्दण्डकुमुद - दलगहनम्, आमग्नकमलखण्डम् उत्प्लवमानाश्यानकिंजल्कदलकमलम्, आजर्जरित कहार- कुवलयम्, उद्भान्तभ्रमदलिवलयम्, उड्डीन हंस सार्थत्यक्तम्, अनवस्थानसारसारसितकरुणम्, अवशिष्टद्लतलनिलीयमानोच्चकित चक्रवाकयुगलम्, उत्कम्पितकादम्ब कदम्बकश्रियमाणोपकू- लनडलम्, उत्कल विस्तकला पिचकबलाककलापाध्यासितोपान्तपादपम्, आहतं प्रावृषान्य दिव १ पाटवेनापटुतया, सर्वमेव समग्रमेवारत्योद्वेगेन कृत्वा । दिवसैर्दिनैश्वो लिख्य मानमिवोत्कीर्यमाणमिव, अनवरत वाहिना निरन्तरप्रवर्तिनाश्रुपूरप्रवाहेण नेत्रजलप्लवर येणावभज्यमानमिव मर्धमानमित्र, सततैर्निरन्तरैः सविस्तृ- तैर्वा निश्वासप्रभञ्जनैः पानवायुभिरुत्खन्यमान मिवोत्पाद्यमानमिव, सततैरत एवाजस्रपातिभिर्निरन्तरपतनशीलैः सान्तर्मदनस्य कंदर्पस्य यद्दुःखमसातं तस्योत्कलिकासहस्रै हल्लेख सहस्रैरितस्ततः प्रेरणेन जर्जरीक्रियमाणमिव शिथिली क्रियमाणमिव । अपि च सहस्रैः सहस्रसंख्याकैर्मकरध्वजस्य मदनस्य शरासारैर्वाणवेगवृष्टिभिर्वपुषा शरीरेणैव च सह क्षीयमाणमिव क्षीणतां प्राप्यमाणमिव । स्वल्पं स्तोकं यदवशेषमुर्वरितं संकल्पलिखितं क ल्पनाकल्पितं तेन निर्विशेषवृत्तिना स्वरूपमात्रवर्तिना कादम्बरीशरीरेणैव सह कण्ठलमं निगरणासक्तं कथं कथमपि महता कष्टेन जीवितं प्राणितं धारयन्बिभ्रन् । तदेवाच्छदं सर आससाद प्राप्तवान् | इतोऽच्छोदं विशेषयन्नाह - धारेति । धाराधरेण क्लिनमा तीरस्य तटस्य तरूणां वृक्षाणां तलमधोभागो यस्मिंस्तत्तथा । आम्लावितो जलेन धौत उपान्तः समीपवर्ती हरितो नीलः शादुलप्रदेशो यस्य तत्तथा । 'शाइल: शादहरिते' इति हैमः । अशेषे समग्रे तटे तीरे लतावनं वलीकाननं यस्मिंस्तत्तथा । अनवरतं निरन्तरं रोधस्टं तस्य जलप्रवेशेन पानीयागमेन कलुपितो मलिनीकृतः प्रान्तः प्रदेशो यस्य तत्तथा । अवशीर्यमाणानि श्यमानानि यान्युद्दण्डान्युन्नालानि कुमुदानि करवाणि तेषां दलानि पत्राणि तैर्गहनं निविडम् । दुरवगाहमित्यर्थः । आ- मग्नं ब्रुडितं कमलखण्डं पद्मवनं यस्मिंस्तत्तथा । उत्प्लवमानान्युत्प्रावल्येनोदुदूर्ध्वं व्यतीर्यमाणान्यनाश्यानान्य- शुष्काणि किंजल्कदलानि कमलानि च यस्मिंस्तत्तथा । 'किंजल्क: केसरोऽस्त्रियाम्' इत्यमरः । आ समन्ता- जर्जंरितानि शिथिलितानि कहारकुवलयानि यस्मिंस्तत्तथा । तत्र कहारं सौगन्धिकम् | 'सौगन्धिकं तु क- ह्रारम्' इत्यमरः । कुवलयानि प्रतीतानि | उद्घान्तं चकितं च तमत्कमलाभावादलिवलयं भ्रमरसमूहो यस्मिं स्तत्तथा । उड्डीनैः संडीनैर्हंससाथैश्चकाङ्गसमूहस्त्यक्तमुज्झितम् । 'प्रडीनोडीनसंडीनान्येताः खगगतिक्रियाः- इत्यमरः । कचित् 'उड्डीनहंससार्थम्' इत्येव पाठः । त-हीना हंसानां सार्थाः समुहा यस्मिन्नित्यर्थः । न वि.