पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उत्तरभागः । अयि दृष्टस्त्वया - रस्तात्पत्रलेखागमनवृत्तान्तप्रश्नः । वैशम्पायनवृत्तान्तमेव तावत्पृच्छामि च्छोदसरसि वैशम्पायनः | पृष्टो वोवस्थानकारणम् | पृष्टेन वा किंचित्कथितं न वा । पश्चा- तापी वास्मत्परित्यागेन । स्मरति वास्माकम् | पृष्टोऽसि वानेन किंचिन्मदीयम् । उपलब्धो वाभिप्रायः । उत्पन्नो वालापो युवयोः | मातापित्रोर्वा संदिष्टं किंचित् । प्रतियोधितो वा त्वयागमनाय | आवेदितं वास्य मेंदीयमागनम् । नापयास्यति वा तस्मात्प्रदेशात् । दास्यति वा दर्शनम् | ग्रहीष्यति वास्मदनुनयम् । आगमिष्यति वा पुनर्मया सह । किं कुर्वन्दिव- समास्ते । को वा विनोदोऽस्य तिष्ठतः' इति । र्सं त्वेवं पृष्टो व्यज्ञपयत् - 'देव, देवेन तु वैश- म्पायनमालोक्यानुपदमेव तुरंगमैरागत एवाहम्' इत्यादिश्य विसर्जितोऽहम् । अच्छोदसरसः प्रतीपं वैशम्पायनो गत इत्येषान्तरा वार्तैव नोपयातां । चिरयति च देवे जलदसमयारम्भ- मालोक्य कदाचिदेतेषु दिवसेषु देवेन तारापीडेन देव्या बिलासवत्यार्यशुकनासेन च कृत- प्रयत्नोऽपि न मुच्यत एवागन्तुं देवश्चन्द्रापीडः । त्वया चैका किना न स्थातव्यमेवास्यां भूमौ । परागतप्रायाश्च त्रयम् । तन्नि॒िवर्तयास्मादेव प्रदेशादित्यभिधाय पत्रलेखया केयूरकेण च त्रिच- तुरैः प्रयाणकैरप्राप्त एवाच्छोदं यावद्वलान्निवर्तितोऽस्मि' इति । एवमावेद्य विरराम | विरत- १२ । पत्रलेखागमनवृत्तान्तप्रश्नतिष्ठतु | वैशम्पायनस्य वृत्तान्तमुदन्तमेव तावत्पृच्छामि प्रश्नविषयी करोमि। अयीति। अयीति विषादे । 'अयि क्रोधे विषादे च संभ्रान्तस्मरणेऽपि च' इति विश्वः । अच्छोदसरस्यच्छं निर्मल- मुदकं जलं यस्मिन् । उदकस्योदादेशः । एवंविधे तटाके वैशम्पायनस्त्वया दृष्टो विलोकितः | अवस्थानका रणं तत्रावस्थाननिदानं पृष्टो वा पृच्छाविषयीकृतो वा | पृष्टेन वा तेन किंचित्कथितं प्रोक्तं न वा । अस्मत्प्र- रित्यागेन तस्य पश्चात्तापोऽनुतापोऽस्ति वा । अस्माकं स्मरति स्मृतिगोचरीकरोति वा । कर्मणि षष्टी । अनेन वैशम्पायनेन किंचित्त्वं मदीयं मत्संबन्धि पृष्टोऽसि वा उपलब्धो ज्ञातो वा तस्याभिप्राय आशयः । युवयोर्भवतोरुत्पन्नः संजातो वालापः संलापः | मातापित्रोर्जननीजनकयोः किंचितसंदिष्टं कथितं वा । त्वया भवतागमनाय प्रतिबोधितो वा प्रतिबोधं प्रापितो वा । अस्य वैशम्पायनस्य मदीयमागमनमावेदितं निवेदितं वा । तस्मात्प्रदेशात्स्थानान्नापयास्यति न गमिष्यति वा । दर्शनं दास्यति वा । अस्माकमिति शेषः । अस्मा- कमनुनयं प्रणतिं ग्रहीष्यति वा । पुनर्मया सहागमिष्यति वागमनं करिष्यति वा । किं कुर्वन्कि विवद्दिवसं दिनमास्ते तिष्ठति । अस्य वैशम्पायनस्यात्र तिष्ठतः स्थितिं कुर्वतः को वा विनोदः का केलिरिति । स तु मेघनाद एवं पृष्टः सन्व्यज्ञपयद्विज्ञप्तिं चकार । किं कथितवानित्याशयेनाह – देव इति । हे देव हे स्वामिन्, देवेनैव भवतैव वैशम्पायनमालोक्य निरीक्ष्यानुपदमनुचरणन्यासं तुरंगमैरश्वैरहमागत एनेत्यादिश्येत्युक्त्वाहं मे- घनादाभिधो विसर्जितो गमनायानुज्ञातः | अच्छोदसरसः प्रतीपं वामं प्रदेशं वैशम्पायनो गत इत्येषा वार्तव किंवदन्त्येवान्तरा विचचाल | मार्गस्येति शेषः | नोपयाता न प्राप्ता । 'प्रतिकूलं तु विलोममपसव्यमपष्टुरम् । वामप्रसव्यप्रतीपं प्रतिलोममपष्टु च' इति हैमः | मया पूर्व त्वं विसर्जितः कथमत्रागत इत्याकाङ्क्षायामाह-- - । A